SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ व्याख्या-चारित्रमतिक्रम्य यो [मानो वर्चते सोऽतिमानः, चकारात्क्रोधोऽपि परिगृह्यते । एवमतिमायां अतिलोभ [च], तमेवम्भूतं कषायवातं संयमपरिपन्थिनं 'पण्डितो' विवेकी परिज्ञाय सर्वमेनं संसारकारणभूतं कषायसमृहं निराकृत्य निर्वाणमनुसन्धयेत् । सति च कषायकदम्बके न संयमः सम्यक सफलतां प्रतिपद्यते । तदुक्तम्-"सामन्नमणुचरंतस्स, कसाया जस्स उकडा हुँति । मन्नामि उच्छुपुष्पं व, निष्फलं तस्स चारित्तं ॥१॥” इति, तस्मिनिष्फले न मोक्षसम्भवः, अतः कषायपरित्यागात् प्रशस्तभावानुसन्धानेन निर्वाणं साधयेदिति गाथार्थः ॥ ३४ ॥ किश्चसंधए साहधम्मं च, पावधम्मं निराकरे । उवहाणवीरिए भिक्ख, कोहं माणं ण पत्थए ॥३५॥ व्याख्या-साधुधर्मः क्षान्त्यादिको दशप्रकार: सम्यग्दर्शनचारित्राख्यो वा, तं साधुधर्ममनुसन्धयेत-वृद्धिमापादयेत् । तथा 'पापं' पापोपादानकारणं 'धर्म' प्राण्युपमर्दनप्रवृत्तं निराकुर्यात् । तथोपधान-तपः, तत्र यथाशक्त्या वीर्य यस्य स उपधानवीर्यो भिक्षुः, क्रोधं मानं च न प्रार्थयेन वर्द्धयेद्वा इति गाथार्थः ॥ ३५॥ ___अथैवम्भूतं भावमार्ग किं वर्द्धमानस्वाम्येवोपदिष्टवान् ? उतान्येपीत्येतदाशङ्कथाहजेय बुद्धा अतिकंता, जे य बुद्धा अणागया । संति तेर्सि पइटाणं, भूयाणं जगती जहा ॥ ३६॥ व्याख्या-ये बुद्धा-स्तीर्थकृतोऽतीतेऽनादिके कालेऽनन्ता अतिक्रान्तास्ते सर्वेऽप्येवंविधं भावमार्गमुपदिष्टवन्तः । १ श्रामण्यमनुचरतः कषाया यस्योत्कटा भवन्ति । मन्ये इक्षुपुष्पमिव निष्फलं तस्य चारित्रम् ॥ १॥ Jan Education international For Private & Personal use only
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy