________________
सूर्यगढाङ्गसूत्रं
दीपिकान्वितम् ।
॥१२७॥
Jain Education
मात्र पुन:[स्वल्पानां ] स्वल्पकालीयं, अतोऽस्ति पुण्यमित्येवं नो वदेत् । नास्ति पुण्य मित्यपि न वक्तव्यं, इत्येवं वदतां तत् प्रतिषेध एव कृतो भवेत् तत् प्रतिषेधे कृते तेषामन्तरायः स्यात् । ततो द्विधाऽप्यस्ति नास्ति वा पुण्यमित्येवं ते साधवः पुनर्न माषन्ते, किन्तु पृष्टैः सद्भिर्मोनमेव समाश्रयणीयं, निर्बन्धे त्वस्माकं द्विचत्वारिंशदोषवर्जित आहारः कल्पते, एवंविधविषयेऽस्माकं मुमुक्षूणामधिकार एव नास्ति तदेवमुभयथाऽपि भाषिते 'रजसः ' कर्मण ' आयो' लाभो भवति + । ततस्तमायं रजसो मानवद्यभाषणे वा' हित्वा त्यक्त्वा ते अनवद्य भाषिणो निर्वाणं- मोक्षं प्राप्नुवन्तीति गाथार्थः ॥ २१ ॥ अपि चनिवाणं परमं बुद्धा, णक्खत्ताण व चंदिमा । तम्हा सया जए दंते, निवाणं संधए मुणी ॥ २२ ॥
व्याख्या - येषां परलोकार्थिनां बुद्धानां निर्वाणं तत्परमं प्रधानं, बुद्धास्तु निर्वाणमेवाभिसन्धाय प्रवृत्ताः, अतस्त एव प्रधानाः, नापरे इति । यदि वा यथा नक्षत्राणां चन्द्रमाः प्रधानभावमनुभवति, एवं लोकस्य निर्वाणं परमं प्रधानमेवं 'बुद्धा' अवगततश्वाः प्रतिपादयन्तीति । यस्माच्च निर्वाणं प्रधानं तस्मा'त्सदा' सर्वकालं 'मुनिः ' साधु' र्यतः ' प्रयत्नवान् 'दान्तः ' इन्द्रियनोइन्द्रियदमेन, एवंविधो निर्वाणमभिसन्धये - निर्वाणार्थं सर्वाः क्रियाः कुर्यादिति गाथार्थः ॥ २२ ॥ वुज्झमाणाण पाणाणं, किश्चंताण सकम्मुणा । आघाति साहु तं दीवं, पतिट्ठेसा पवुच्चती ॥ २३ ॥
+ यथा चोक्तमन्यैः–“ सत्यं वत्रे[वापी]षु शीतं हिमकरधवलं वारि पीत्वा प्रकामं, व्युच्छिन्नाशेषतृष्णाः प्रमुदितमनसः पान्थसार्था भवन्ति । शोषं नीते जलौघे दिनकरकिरणैर्यान्त्यनन्ता विनाशं, तेनोदासीनभावं व्रजति मुनिगण: कूपवप्रा [वाप्या] दिकायें ||१||” इत्यादि ।
For Private & Personal Use Only
११ मार्गा. ध्ययने कूपादिखननादौ पुण्य
पापयोई
योरप्यक
ध्यत्वं
साधुनाम् ।
॥१२७॥
www.jainelibrary.org