________________
जेसिं तं उवकप्पंति, अन्नपाणं तहाविहं । तेसिं लाभंतरायंति, तम्हा णस्थित्ति नो वए ॥ १९ ॥
व्याख्या-येषां जन्तूनां कृते तदन्नपानादिकं किल धर्मबुद्ध्योपकल्पयन्ति-तथाविधं प्राण्युपमईदोषदुष्टं निष्पादयन्ति, तनिषेधे च यस्मात्तेषा-माहारपानार्थिनां तल्लाभान्तरायो-विघ्नो भवेत्तदभावेन तु [ते] पीडथेरन् , तस्मात् कूपखननसत्रादिके कर्मणि नास्ति पुण्यमित्येवमपि नो वदेदिति गाथार्थः ॥ १९ ॥
एनमेवार्थ पुनरपि स्पष्टतरं बिभणिषुराहजे य दाणं पसंसंति, वहमिच्छति पाणिणं । जे उण पडिसेहंति, वित्तिच्छेयं करिति ते ॥२०॥
व्याव्या-ये केचन प्रपासत्रादिकं दानं बहूनां जन्तूनामुपकारीति 'प्रशंसन्ति' श्लाघन्ते, ते परमार्थानभिज्ञाः प्रभूत-IN तरप्राणिनां तत्प्रशंसाद्वारेण तेषां प्राणिनां 'वधं' प्राणातिपातमिच्छन्ति, तदानं तु प्राणातिपातमन्तरेण न भवेत् । ये पुनः किल सूक्ष्मधियो वयं-गीतार्था इत्येवं मन्यमाना आगमसद्भावमजानन्तः 'प्रतिषेधयन्ति' निषेधयन्ति तेऽप्यगीतार्थाः प्राणिनां 'वृत्तिच्छेदं लाभान्तरायं कुर्वन्तीति गाथार्थः ।। २०॥
तदेवं राज्ञा अन्येन वा ईश्वरेण कृपतडागयागसत्रदानाद्युद्यतेन पुण्यसद्भाव पृष्टैर्मुसक्षुभिर्यद्विधेयं तदर्शयितुमाहदहओ वि ते न भासंति, अस्थि वा नत्थि वा पुणो। आयं रयस्स हिच्चाणं, निवाणं पाउणंति ते॥२१॥
व्याख्या-यद्यस्ति पुण्यमित्येवं वदेयुस्तदाऽनन्तानां जीवानां सूक्ष्मबादराणां सर्वदा प्राणत्याग एव स्यात् , प्रीणन
Jain Education
a
l
For Privale & Personal use only
Pwww.jainelibrary.org