________________
व्याख्या-'यदि' कदाचिनो-ऽस्मान् केचन सुलमबोधयः संसारमयोद्विग्नाः सम्यङमार्ग पृच्छेयुः, के ते? देवास्तथा मनुष्याः, तयोरेव प्रश्नसद्भावात् , न तिर्यग्नैरयिकाः पृच्छेयुः, अथ तेषां पृच्छतां कतरं मार्गमहमाख्यास्येकथयिध्ये ?, तदेतदस्माकं त्वं जानानः कथयेति गाथार्थः ॥३॥ एवं पृष्टः सुधर्मस्वाम्याहजइ वो केइ पुच्छेज्जा, देवा अदुव माणुसा । तेसिमं पडिसाहेज्जा, मग्गसारं सुणेह मे ॥ ४॥ .
व्याख्या-'यदि ' कदाचिद्वो-युष्मान् देवा मनुष्याः सम्यङ्मार्ग पृच्छेयुः, तेषां पृच्छता इम-वक्ष्यमाणं षड्जीवनिकायरक्षाप्रवणं ज्ञानदर्शनचारित्रात्मकं मुक्तिमार्गप्रसाधकं प्रतिकथयेत् मार्गसारं-मार्गपरमार्थ, यं भवन्तोऽन्येषां प्रतिपादयिष्यन्ति तन्मे-मम कथयतः शृणुत यूयमिति गाथार्थः ।। ४ ।। पुनः सुधर्मस्वाम्याहअणुपुत्वेण महाघोरं, कासवेण पवेइयं । जमादाय इओ पुत्वं, समुदं ववहारिणो ॥ ५॥
व्याख्या-यथाऽहं - अनुपूर्वेण ' अनुपरिपाट्या कथयामि तथा भृणुत यूयम् । किम्भूतं मार्ग ? कापुरुषैः सत्रामप्रवेशवत-दुरध्यवसेयत्वान्महाघोरं-महाभयानकं 'काश्यपेन' श्रीवर्द्धमानस्वामिना 'प्रवेदितं' प्रणीतं मार्ग कथयिप्यामीत्यनेन स्वमनीषिकापरिहारः कृतः। यं शुद्धं मार्गमुपादाय ' इत' इति सन्मार्गोपादानात्पूर्व-मादावेव दुस्तरं संसारं महापुरुषास्तरन्ति, व्यवहारिणो यानपात्रेण समुद्रमिव, यथा हि सांयात्रिका वणिजो यानपात्रेण समुद्रं तरन्ति तथा साधवोऽपि सम्यग्दर्शनादिना मार्गेण दुस्तरमपि भवौषं तरन्तीति गाथार्थः ॥५॥
Jain Education Inter
For Private & Personal Use Only