________________
अथैकादशं मार्गाध्ययनम् ।
सूयगडाङ्ग
सत्र । दीपिकान्वितम् ।
११ मार्गाध्ययने सम्यङ्
मार्ग
कथनम्।
॥१२३॥
उक्तं दशममध्ययनं, अथैकादशमं प्रारभ्यते मार्गाध्ययनम् , तत्रेयमादिगाथाकयरे मग्गे अक्खाए ?, माहणेण मईमया। जं मग्गं उज्जु पावित्ता, ओहं तरति दुत्तरं ॥१॥ ____ व्याख्या-सुधर्मस्वामिनं प्रति जम्बूस्वामी प्राइ-कतर 'किम्भूतो माग्र्गोऽपवर्गावाप्तिसमर्थः प्रतिपादितो ? भगवता माहनेन मतिमता, मतिः-केवलज्ञानाख्या यस्यास्त्यसौ मतिमाँस्तेन, यं प्रशस्तं भावमार्ग मोक्षगमनं प्रति प्रगुणं ऋजु-मवक्रं, तदेवम्भूतं माग्ग-ज्ञानदर्शनचारित्रात्मकं प्राप्य' लब्ध्वा प्राणी ओघमिति भवौघ-संसारसमुद्रं तरति, अत्यन्तदुस्तरमपि हेलया प्राणी तरति इति गाथार्थः॥१॥ स एव पृच्छकः पुनरप्याहतं मग्गं गुत्तरं सुद्धं, सबदुक्खविमोक्खणं। जाणासि णं जहा भिक्खू !, तं नो ब्रूहि महामुणी! ॥२॥
व्याख्या-योऽसौ मार्गः सवहिताय सर्वज्ञेनोपदिष्टस्तं मार्गमनुत्तरं-सर्वोत्कृष्टं, सर्वदुःखेभ्यो विमोचकं, हे भिक्षो! यथा वं जानीषे 'ण'मिति वाक्यालङ्कारे, हे महामुने ! तथा त्वं [न:-अस्माकं] कथयेति ॥ २ ॥
यद्यप्यस्माकं युष्मत्प्रत्ययेनैव प्रवृत्तिः स्यात्तथाऽप्यन्येषां मया किम्भूतो मार्गः कथनीयः ? इत्यभिप्रायवानाहजइ णो केई पुच्छेजा, देवा अदुव माणुसा । तोर्स तु कयरं मग्गं, आइक्खेज ? कहाहि णो॥३॥
॥१२३॥
Jain Education
a
l
For Privale & Personal use only
www.jainelibrary.org