SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग सूत्रं दीपिकान्वितम् । ॥१२२॥ Jain Education Interr व्याख्या - संबुध्यमानो नरो मतिमान् पापादात्मानं निवर्त्तयेत् । किं कृत्वा 'हिंसा' प्राणीभ्यपरोपणं, तथा प्रसूतानि यान्यशुभकर्माणि तानि दुःखोत्पादकानि वर्त्तन्ते, तथा वैरानुबन्धीनि - जन्म शतसहस्रदुर्मोचानि, अत एव महाभयानीत्येवं मत्वा मतिमानात्मानं पापान्निवर्त्तयेदिति गाथार्थः ॥ २१ ॥ मुसं न बूया मुणि अत्तगामी, णिवाणमेयं कसिणं समाहिं । सयं न कुज्जा उ न कारवेज्जा, करंतमन्नपि य नाणुजाणे ॥ २२ ॥ व्याख्या - ' आप्तः सर्वज्ञस्तदुपदिष्टमार्गगामी 'मुनिः साधुर्मृषावाद - मयथार्थं न ब्रूयात्, सत्यमपि प्राण्युपघातकं न वदेत्, एतन्मृषावादवर्जनं 'कृत्स्नं' सम्पूर्ण भावसमाधि निर्वाण चाहुः, तदेवं मृषावादमन्येषां वा व्रतानामतिचारं स्वयमात्मना न कुर्यात्, नाप्यपरेण कारयेत्तथा कुर्वन्तमध्यपरं नानुमन्येत इति गाथार्थः ॥ २२ ॥ उत्तरगुणानधिकृत्याह सुद्धे सिया जाए न दूसएजा, अमुच्छिए ण य अज्झोववन्ने । िितमं विमुक्के ण य पूणही, न सिलोयकामी य परिवएज्जा ॥ २३ ॥ व्याख्या- ' शुद्धे' निर्दोषे स्यात् कदाचिजाते- प्राप्ते सत्याहारे साधू रागद्वेषाभ्यां न दूषयेत्, तत्राहारे न मूर्च्छितअमूर्च्छितः सकृदपि शोभनाहारला मे सति गृद्धिमकुर्वन्नाहारयति । धृतिमान् संयमे, विमुक्तः - सबाह्याभ्यन्तरेण For Private & Personal Use Only १० समाध्यध्ययने वैरानुब न्धकत्वं हिंसायाः । ॥१२२॥ www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy