________________
लालप्पती सेवि य एइ मोहं, अन्ने जणा तं से हरांति वित्तं ॥ १९ ॥ व्याख्या-'वित्तं' द्रव्यजातं तथा 'पशवो' गोमहिध्यादयस्तान् ‘जहाहि' परित्यज, तेषु ममत्वं मा कृथाः। ये बान्धवाः-पित्रादयः श्वशुरादयश्च प्रियमित्रा:-सहपांशुक्रीडितादयः, एतेऽपि मातापित्रादयो न किश्चित्तस्य परमार्थतः कुर्वन्ति, सोऽपि च वित्तपशुवान्धवमित्रार्थी अत्यर्थ पुनःपुनर्वा लपति-लालप्यते, असमाधिवान् पुनःपुनर्मुझते, यच्च प्राण्युपमद्देनोपार्जितं वित्तं, तदन्ये जनाः ‘से' तस्यापहरन्ति जीवत एव [वा, तस्य ] मृतस्य च केश एव केवलं पापबन्धश्चेत्येवं मत्वा पापकर्माणि परित्यजेत्तपश्चरेदिति गाथार्थः ।। १९॥
सीहं जहा खुद्दमिगा चरंता, दूरे चरंती परिसंकमाणा।
एवं तु मेहावि समिक्ख धम्म, दूरेण पावं परिवजएजा ॥ २०॥ __ व्याख्या-यथा क्षुद्रमृगाश्चरन्तो-ऽटव्यामटन्तः सर्वतो विभ्यतः परिशङ्कमानाः सिंहं व्याघ्र वा आत्मोपद्रवकारिणं | रेण परिहत्य चरन्ति, एवं मेधावी धर्म ' समीक्ष्य ' पोलोच्य ‘पापं' कर्म दूरेण परिहत्य परिव्रजेत् , संयमानुष्ठायी तपश्चारी च भवेत् । 'पाप' (वा) सावद्यानुष्ठानं सिंहमिव मृगः स्वहितमिच्छन् परित्यजेदिति गाथार्थः ॥२०॥
संबुज्झमाणे उ णरे मतीमं, पावाउ अप्पाण निवट्टएज्जा। हिंसप्पसूयाई दुहाई मत्ता, वेराणुबंधीणि महब्भयाणि ॥ २१ ॥
For Private Personal Use Only
A
Jain Education Intera
jainelibrary.org