________________
दात्मा निष्क्रियः पठ्यते, तथा चोक्तं-"अकर्ता निर्गुणोx भोक्ता, आत्मा कापिलदर्शने" इति वचनात् । तथा अक्रियश्चेदात्मा तर्हि कथं मोक्षावाप्तिः ? एवं पृष्टाः सन्तस्ते साँख्याः अक्रियेऽप्यात्मनि 'धृतं ' मोक्षं प्रतिपादयन्ति, ते तु पचनपाचनादिके स्नानार्थ जलावगाहनरूपे पारम्मे-सावद्ये सक्ताः, गृद्धाः लोके, मोक्षकहेतुभूतं धर्म श्रुतचारित्राख्यं न जानन्ति, कुमार्गग्राहिणो न सम्यगवगच्छन्तीति गाथार्थः ॥ १६ ॥
पुढो य छंदा इह माणवा उ, किरियाकिरीणं च पुढो य वायं ।
जायस्स बालस्स पकुव देहं, पवद्दती वेरमसंजतस्स ॥१७॥ __ व्याख्या-'पृथक्छन्दाः ' पृथगभिप्रायाः, इहास्मिन्मनुष्यलोके मानवाः सन्ति । इह मनुष्यलोके ये केचन मानवाः सन्ति ते सर्वेऽपि पृथगभिप्राया एव सन्ति । कथं पृथगभिप्रायाः ? क्रियाअक्रिययोः पृथक्त्वेन, एके क्रियावादिनः एके. ऽक्रियावादमाश्रिताश्च । एके वदन्ति-"क्रियैव फलदा पुंसां, न ज्ञानं फलदं स्मृतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ॥१॥” इति क्रियावादिनो वदन्ति । अन्ये एतद्विपर्ययेण अक्रियावादमाश्रिताः, एवं च नानाऽभिप्राया मानवाः क्रियाऽक्रियादिकं पृयग्वादमाश्रिताः, मोक्षकहेतुं धर्ममजानानाः, आरम्ममग्नाः, इन्द्रियवशगाः सातगारवाश्रिताश्चैतत्कुर्वन्ति-जातस्य 'बालस्य ' सदसद्विवेकविकलस्य सुखैषिणो देहं खण्डशः कृत्वाऽऽत्मनः सुखमु-
x सत्त्वरजस्तमोगुण रहितः।
Jan Education
!
For Private & Personal Use Only
irlww.jainelibrary.org