________________
विप्रमुक्तसङ्गता स्यात् । न चैतन्मृषा' नालीकं इत्येवं पश्य, एष एव-एकत्वभावनाऽभिप्रायः प्रमोक्षो वर्तते । अमृषारूप: सत्यश्चायमेव । तथा 'वरोऽपि' प्रधानोऽप्ययमेव भावसमाधिर्वा । अथवा यस्तपस्वी-तपोनिष्टप्तदेहः अक्रोधन: अमान: अमायः अलोमश्च सत्यरतः एष एव प्रमोक्षः ' अमृषा' सत्यो 'वर' प्रधानश्च वर्त्तते इति गाथार्थः॥ १२ ॥ किञ्च
इत्थीसु या आरय मेहुणा उ, परिग्गहं चेव अकुबमाणे ।
उच्चावएसु विसएसु ताई, निस्संसयं भिक्खु समाहिपत्ते ॥ १३ ॥ व्याख्या-दिव्यमानुषतिर्यग्रूपासु स्त्रीषु त्रिविधास्वपि विषयभूतासु यन्मैथुन, तस्मादासमन्तान रतो-निवृत्तः, तुशब्दाप्राणातिपात[दि]निवृत्तश्च, तथा परिग्रहं चाकुर्वन् , उच्चावचेष्वपि विषयेषु रागद्वेषरहितः, तथा 'पायी' षट्कायरक्षका 'निःसंशयं ' निश्चयेन परमार्थतो भिक्षुरेवम्भूतः समाधि प्राप्तो भावसाधुर्भवतीति गाथार्थः ॥ १३ ॥ एतावता विषयेभ्यो निवृत्त एव भावसमाधियुक्तो भवतीत्याह
अरई रइं च अभिभूय भिक्खू , तणाइफासं तह सीयफासं ।
ते [उण्डं] च दंसं च हियासएजा, सुन्भिं च दब्भिं च तितिक्खएज्जा ॥१४॥ व्याख्या-पुनः साधुः कीदृशो भवति ? संयमे अरतिं असंयमे च रति अभिभूय' निराकृत्य निष्काश्चनतया तृणादिकान् ' स्पर्शान्' परीषहाँस्तथा निम्नोन्नतभूप्रदेशस्पर्शाश्च सम्यगधिसहेत । तथा शीतोष्ण-दंश-मशक-क्षुत्पि
Jain Education Inter
For Privale & Personal use only
Mw.jainelibrary.org