________________
सूयगडाङ्ग
पत्रं दीपिकान्वितम् । ॥११९॥
१० समाध्यध्ययने विषयनि
वृत्ती समाधिः।
अहाकडं वा न णिकामएजा, निकामयंते य ण संथवेजा।
धुणे उरालं अणुवेहमाणे, चिच्चा ण सोयं अणुवेक्खमाणे ॥ ११ ॥ व्याख्या-'आधाय कृतं ' साधूनुद्दिश्य कृतं आहारजातं निश्चयेन न कामये-नाभिलषेत् । 'निकामयतो' निश्चयेन अभिलषतः औदेशिकं भोजनं पार्श्वस्थादीन् न संस्तवेनोपबृंहयेत्तैर्वा सार्दू संस्तवं न कुर्यात् । 'धुणे उरालं' औदारिक शरीरं धुनीयात्-कुशं कुर्यात् । कर्मनिर्जरामनुप्रेक्षमाण औदारिकं शरीरं विकृष्टतपसा कृशयेत् । अथवा बहुजन्मान्तरसश्चितं कर्म 'उदारं' मोक्षं अनुप्रेक्षमाणः धुनीयात् , तस्मिश्च धूयमाने कृशी भवति शरीरे कदाचिच्छोकः स्यात् , तं त्यक्त्वा याचितोपकरणवन्निर्मोहः सन् शरीरं धुनीयात् , न शरीरे प्रतिवन्धं कुर्यादिति भावः । इति गाथार्थः ।। ११ ॥
एगत्तमेयं अभिपत्थएज्जा, एवं पमोक्खो न मुसंति पास।
एसप्पमोक्खो अमुसे वरेवि, अकोहणे सच्चरते तवस्सी ॥ १२ ॥ व्याख्या-साधुरेकत्व-मसहायत्त्वमभिप्रार्थयेत् , एकत्वाध्यवसायी स्यात् , यतः संसारे जन्ममरणरोगशोकाकुले स्वकर्मणा विलुप्यमानानां प्राणिनां न कश्चित्राणसमर्थः सहायः स्यात् । यतः-" एगो मे सासओ अप्पा, नाणदंसण| संजुओ। सेसा मे बाहिरा भावा, सव्वे संजोगलक्खणा ॥१॥" तथा अनया एकत्वभावनया 'प्रमोक्षः'
१ एको मे शाश्वत आत्मा, ज्ञानदर्शनसंयुतः । शेषा मे बाह्या भावाः, सर्वे संयोगलक्षणाः ॥ १ ॥
॥११९॥
Jain Education in lite
For Privale & Personal use only
vww.jainelibrary.org