________________
सम्म भासी य
आय' द्रव्यादिलायामिलाप वा नया अपनीय
अर्थतो 'दुर्ग' विषम दुरुत्तारं उपैति । यत एवं तस्मान्मेधावी-विवेकी सम्पूर्ण समाधिगुणं जानन् धर्म श्रुतचारित्ररूपं 'समीक्ष्य ' पर्यालोच्य ' मुनिः' साधुः सर्वतो विप्रमुक्तः संयमानुष्ठानं चरेत् ' अन्वतिष्ठत् । योषित-आरम्भादिसङ्गाद्विप्रमुक्तोऽनिश्रितमावेन विहरेदिति गाथार्थः ॥९॥
आयं न कुज्जा इह जीवियट्ठी, असज्जमाणो य परिवएज्जा ।
निसम्म भासी य विणीय गिद्धिं, हिंसन्नियं वा ण कहं करेजा ॥ १० ॥ ___ व्याख्या-साधुरिहासंयमजीवितार्थी 'आय' द्रव्यादिलाभं न कुर्यात् , द्रव्यसञ्चयं न कुर्यात् । पाठान्तरे'छंदं ण कुज्जा' छन्द-प्रार्थनाऽभिलाषं इन्द्रियाणां स्वस्व विषयाभिलाप वा न कुर्यात् । ' असज्जमानः ' गृहपुत्रकलत्रादिषु सङ्ग-प्रतिबन्धं अकुर्वन् परिव्रजेत्-उद्यतविहारी भवेत् । किं कृत्वा ? ' विनीय ' अपनीय गृद्धिं विषयेषु 'निशम्य' सम्यगवगम्य-पूर्वोत्तरेण पर्यालोच्य भाषको भवेत् 'हिंसन्नियं वा ण कहं करेजा' हिंसान्विता-प्राण्युपमर्द रूपां कथां न कुर्यात् , यदात्मनः परेषां च कर्मोपादानभूतं वचो न भाषणीयं, "जेण परो मिजह, अवराहो होइ जेण भणिएणं । अप्पा पडइ किलेसे, तं न हुजंपति गीयत्था ॥१॥"एतावता 'अश्नीत पिबत खादत मोदत हत छिन्त प्रहरत पचत' इत्यादिकां पापोपादानभृतां वाचं न भाषेत इति गाथार्थः॥१०॥
१ येन परो दूम्य(पीड्य)तेऽपराधो भवति येन भणितेन । आत्मा पतति कलेशे, तन्नैव जल्पन्ति गीतार्थाः ॥ १॥
Jain Education Intel
For Private & Personal Use Only
O
w
.jainelibrary.org