________________
सूयगडाङ्गसूत्रं
दीपिकान्वितम् ।
॥११८॥
Jain Education
तदभावे दीनः सन् पार्श्वस्थादिभावं भजते । कश्चित्पूजनं वस्त्रपात्रादिना प्रार्थयेत् । श्लोककामी - महच्चार्थी व्याकरण - गणितज्योतिषनिमित्तशास्त्राणि पठति कश्चित्स भावसमाधिभ्रष्टो भवेदिति गाथार्थः ॥ ७ ॥ किञ्च -
अहाकडं चैव निकाममीणे, निगामचारी य विसण्णमेसी ।
इत्थी सत्तेय पुढो य बाले, परिग्गहं चेव पकुवमाणे ॥ ८ ॥
व्याख्या - साधूनाधाय कृतं आहारोपकरणादिकं 'निकाममीणे' [ अत्यर्थं ] प्रार्थयते, तथा आधाकर्मादीनि तन्निमित्तं निमन्त्रणादीनि वा चरति । संयमोद्योगे विषण्णानां पार्श्वस्थादीनां विषण्णभावमेपते, सदनुष्ठाने विषण्णः संसारपङ्कावसन्नो भवति । तथा 'बालो 'ऽज्ञः स्त्रीषु 'पृथक् तद्भाषितहसितांङ्गोपाङ्गेष्वासक्तः, द्रव्यमन्तरेण न तत् प्राप्तिभवतीति विचिन्त्य द्रव्योपार्जनाय परिग्रहमेव प्रकुर्वन् पापं कम्मे समुच्चिनोतीति गाथार्थः ॥ ८ ॥
वेणुगिद्धे णिचयं करेति, इओ चुते से दुहमट्टदुग्गं ।
तम्हा उ मेधावि समिक्ख धम्मं, चरे मुणी सबओ विप्यमुक् ॥ ९ ॥
व्याख्या - येन परोपतापरूपेण कर्म्मणा वैरमनुबद्ध्यते जन्मान्तरशतानुयायी भवति, तत्र गृद्धो वैरानुगृद्धः । पाठान्तरे ' आरंभसत्तो 'ति आरम्भे- सावद्यानुष्ठाने सक्तो निरनुकम्पः सन् ' निचयं' कम्मोपादानरूपं करोति । स एवम्भूतः उपात्तवैरः कृतकर्मोपचयः इतः स्थानाच्युतो - मृतो जन्मान्तरमनुप्राप्तः सन् ' दुःखं ' नरकादियातनास्थानं
For Private & Personal Use Only
१० समा
ध्यध्ययने
द्रव्यादि
त्यागे
समाधिः ।
॥११८॥
www.jainelibrary.org