________________
पापकर्म समुच्चिनोतीति गाथार्थः॥५॥
आदीणवित्ती वि करेति पावं, मंता उ एगंतसमाहिमाहु ।
बुद्धे समाहीइ रते विवेगे, पाणातिवाता विरते ठियप्पा ॥ ६ ॥ व्याख्य–स भिक्षुरादीनवृत्तिः-कृपणवनीपकादेरिवाहारार्थी दीनवृत्तिः, एवम्भूतोऽपि पापकर्म करोति, आहारार्थी दीनतां भजन् पापकर्म बध्नाति, आर्त्त-रौद्रध्यानोपगतो भवति, एवं मत्वा एकान्तेन यो भावरूपो ज्ञानसमाधिस्तं तीर्थङ्कराः संसारोत्तारणायाहुः। कोऽर्थः? यो भावसमाधिः स एव संसारोत्तारणायालं, तदेवं 'बुद्धो' अबगततत्वः, ज्ञानादिके समाधौ एकान्तसुखोत्पादके 'रतो' व्यवस्थितः, विवेके चाहारोपकरण कषायपरित्यागरूपे रतः सन्नेवम्भूतो भवति । प्राणातिपातविरतः, सम्यामाग्र्गानुगतः स्थितात्मा स्यादिति गाथार्थः ॥ ६॥ किश्च
सत्वं जगं तू समयाणुपेही, पियमप्पियं कस्सति णो करेजा।
उट्ठाय दीणोच पुणो विसन्नो, संपूयणं चेव सिलोयकामी ॥ ७ ॥ व्याख्या-'सर्व जगत् ' सचराचरं प्राणिसमूहं 'समतानुप्रेक्षी' समतापश्यकः, समशत्रुमित्रः, समतायुक्तस्य न कश्चित्प्रियमप्रियं वा कुर्यात् , शत्रुमित्राभावात् । ईदृशो हि साधुः सम्पूर्णभावसमाधियुक्तो भवति । कश्चित्परीषहैस्तर्जितः संयमभनो दीनतामालम्ब्य विषयार्थी विषण्णः पुनर्गृहस्थत्वं प्रतिपद्यते । गारवत्रयगृद्धः पूजासत्काराभिलाषी स्यात् ,
Jan Education inter
For Private Personal use only
W
w.ininelibrary.org