________________
सूयगडाङ्ग-
सूत्र | दीपिकान्वितम् ।
१०समाध्यध्ययने अदीनवृत्ती |समाधिः
॥११७॥
सबहे' इति वचनात । तथा 'लाढः' येन केनचित्प्रासुकाहारेणात्मानं यापयति-पालयतीति भावः। तथा 'प्रजा: पृथिव्यादिप्राणिनः स्वात्मवत् पश्यति, एवंविधो भावसाधुः सर्वजीवेषु आत्मतुलां कलयति । तथा असंयमजीवितार्थी 'आय' कर्माश्रवलक्षणं न कुर्यात् । तथा ' चय'माहारोपकरणादेः सञ्चयं न कुर्यात् । का? मुतपस्वी भिक्षुरिति गाथार्थः ॥३॥
सविदियाभिनिव्वुडे पयासु, चरे मुणी सव्वतो विप्पमुक्के ।
पासाहि पाणे य पुढो वि सत्ते, दुक्खेण अट्टे परिपच्चमाणे ॥४॥ व्याख्या-भिक्षुः 'प्रजासु' स्त्रीषु सर्वेन्द्रिय[ादिभिः]निवृत्तः-संवृतेन्द्रियो भवेत्-चरेत्संयमानुष्ठान, सर्वतो विषमुक्तः-निस्सङ्गो निष्किश्चन इत्यर्थः। स एवम्भृतः पश्य प्राणिनः, किम्भूतान् ? दुक्खेनासातावेदनीयोदयरूपेण 'आर्लान् ' पीडितान् परिपच्यमानान् पश्येति सम्बन्धो योज्य इति गाथार्थः॥४॥
एतेसु बाले य पकुव्वमाणे, आवदृती कम्मसु पावएसु ।
अतिवायतो कीरति पावकम्म, निउंजमाणे वि करोत कम्मं ॥५॥ ___ व्याख्या-'एतेषु' पूर्वोक्तेषु पृथिव्यादिषु जीवेषु “बाला' अज्ञानी सङ्घट्टनपरितापोपद्रवादि कुर्वन् पुनस्तेष्वेव | जीवेषु आगत्य 'आवय॑ते' पीड्यते पापकर्माणि कुर्वाण इति, तदतिपातात्-प्राणिव्यपरोपणात्पापकर्म 'क्रियते' बध्यते । तथा भृत्यादींश्च प्राणातिपातादौ 'नियोजयन्' व्यापारयन् पापकर्म करोति' बध्नाति, चशब्दान्मृषावादादिना च
Jain Education Interational
For Privale & Personal use only
www.jainelibrary.org