________________
'अनिदानो' आश्रवरहितः संयम पालयति स साधुः समाधिवान् ज्ञेय इति गाथार्थः॥१॥
उर्दू अहेयं तिरियं दिसासु, तसा य जे थावर जेय पाणा।
हत्थेहि पाएहि य संजमित्ता, अदिनमन्नेहि य णो गहिजा ॥ २॥ व्याख्या-ऊधिस्तियक सर्वलोके + ये साः स्थावराश्च जन्तवः सन्ति, ततश्च साधुस्तान प्राणिनः हस्तपादाभ्यां 'संयम्य' बद्धा अन्यथा वा कदर्थयित्वा यत्तेषां दुःखोत्पादनं, तन्न कुर्यात् । यदि वा हस्तपादौ च संयम्य संयतकायः सन्न हिंस्यात् , च शब्दादुच्छ्वासनिश्वासकासितक्षुतवातनिमादिषु सर्वत्र मनोवाकायकर्मसु संयतो भूत्वा समाधिमनुपालयेत्तथा परैरदत्तं न गृह्णीयात् । एतावता सर्वव्रतपरिग्रहः कृत इति गाथार्थः ॥ २ ॥
सुयक्खातधम्मे वितिगिच्छतिण्णे, लाढे चरे आयतुले पयासु ।
आयं न कुज्जा इह जीवियट्ठी, चयं न कुज्जा सुतवस्सि भिक्खू ॥३॥ व्याख्या-येन साधुना सुष्टु धर्म आख्यातः स स्वाख्यातधर्मा, एतावता गीतार्थः। गीतार्थतामन्तरेण स्वाख्यात धर्मत्वं न सम्भवति, तथा वितिगिच्छतिणे ।' सर्वज्ञोक्तं तथेति प्रतिपद्यते, अनेन दर्शनसमाधिः 'दसणेण य +"प्राच्यादिदिक्षु च" इति हर्ष०ाx"विचिकित्सा' चित्तविप्लुतिर्विद्वज्जुगुप्सावा, तां '[वि]तीर्णः' अतिक्रान्तः" इति वृहद्वृत्तौ।
Jain Education in
For Privale & Personal Use Only
irlww.jainelibrary.org