________________
Jain Education
अभिभूयस्स, वाहियस्स तवस्णिो ॥ १ ॥ " इति [ दश. अ. ६, गा. ६० ] वचनात् कारणे गृहस्थगृहे उपविशतोऽपि न दोषः । तथा कश्चिदुपदेशलब्धिमान् धर्मोपदेशादिकारणे उपविशति तदा न क्षुण्णं । तथा ग्रामकुमारिका क्रीडाकन्दुकादिना तां न कुर्यात् । तथा साधुर्नातिवेलं हसेत्, ज्ञानावरणीयाद्यष्टविधकर्मबन्धभयान्न हसेत् । तथा चागमः"जीवेण भंते ! हसमाणे वा उस्सूयमाणे वा कइ कम्मपगडीओ बंधइ १, गोयमा ! सत्तविहबंधए वा अट्ठविहबंधए वा " इत्यादि ।। २९ ।।
अणुओ उराले, जयमाणो परिवए । चरियाए अप्पमत्तो, पुट्ठो तत्थऽहियास ॥ ३० ॥
व्याख्या—उदारेषु कामभोगेषु दृष्टेषु श्रुतेषु वा नोत्सुकः स्यात् । तथा मूलोत्तरगुणेषु उद्यमं कुर्वन् संयमे च यतमानः परिव्रजेत् । तथा चर्यायां भिक्षादिकायां अप्रमत्तः स्यात्, नाऽऽहारादिषु रसगार्घ्यं विदध्यादिति । तथा स्पृष्टश्च परीषहोपसर्गैस्तत्रादीनमनस्कः कर्मनिर्जरां मन्यमानो विषहेत्-सम्यक् सह्यादिति गाथार्थः ॥ ३० ॥
हम्ममाणो न कुप्पेज्जा, वुञ्च्चमाणो न संजले । सुमणो अहियासेजा, ण य कोलाहलं करे ॥ ३१ ॥
व्याख्या - यष्टिमुष्टिभिर्हन्यमानो न कुप्येत्, दुर्वचनान्युच्यमानो न सबलेत् न प्रतीपं - ( प्रतिकूलं ) वदेत्, किन्तु सुमनाः सर्व कोलाहलमकुर्वन्नधिमहेतेति गाथार्थः ॥ ३१ ॥
१ जीवो भदन्त ! हसन्वा उत्सुकायमानो वा कति कर्मप्रकृतयो बध्नाति ?, गौतम ! सप्तविधबन्धको वाऽष्टविधबन्धको वा ।
२.
For Private & Personal Use Only
www.jainelibrary.org