________________
Jain Education Inter
भाषेतेति भावः । यद्वा ' मामकं ' ममीकारः- पक्षपातस्तं भाषमाणो न वंफेज 'त्ति नाभिलषेत । तथा ' मातृस्थानं ' मायाप्रधानं वचो वर्जयेत् मातृस्थानं न कुर्यात् । यदा वक्तुकामो भवति तदा प्राविचिन्त्य वचनमुदाहरेत्, परासमाधिजनकं न वदेदिति गाथार्थः ॥ २५ ॥
तस्थिमा ततिया भासा, जं वदित्ताऽणुतप्पती । जं छन्नं तं न वत्तवं, एसा आणा नियंठिया ॥ २६ ॥
व्याख्या -सत्या असत्या सत्यामृषा असत्यामृषा, एवं भाषाश्चतस्रः, तत्र सत्यामृषेत्येतदभिधाना तृतीया भाषा, चित्त्या किञ्चिन्मृषेत्येवंरूपा, साऽपि न वक्तव्या, यतः ' दशदारका जाता मृता वा तदत्र न्यूनाधिकसम्भवे सङ्ख्याव्यभिचारात्सत्यामृषेति । एवंरूपां भाषां न भाषेत । या तु भाषणानन्तरं किं ममैवम्भूतेन भाषितेने 'त्येवं पश्चात्तापं विधत्ते तथा च जन्मान्तरे तजनितेन दोषेण लिप्यते तादृशीं भाषां न वदेत् । तथा प्रथमाऽपि भाषा सत्या या प्राण्युपतापेन दोषानुषंगिणी-दोष कलङ्किता सा न वाच्या, तथा द्वितीयाऽपि भाषा ' असत्या' समस्तार्थविसंवादिनी सा तु न वक्तव्या, धर्मादिकारणे वक्तव्याऽपि मृगाः प्रत्यक्षेण दृष्टा अपि ' न मया दृष्टा' एवं कारणे वदतो न दोषः । मिश्राऽपि भाषा दोषाय, तथा चतुर्थ्यपि असत्यामृषा या बुधैरनाचीर्णा, सा न वक्तव्येति । सत्याया अपि दोषानुषंगित्वं दर्शयतियद्वचः ' छन्नं 'ति 'क्षणु हिंसायां' हिंसाप्रधानं, तद्यथा - 'बध्यतां चौरोऽयं, लूयन्तां केदारा, दम्यन्तां गोरथका:' इत्यादि, यदि वा 'न'न्ति यलोकैरपि यत्नतः प्रच्छाद्यते तत्सत्यमपि न वक्तव्यं, एषा आज्ञा-अयमुपदेशो ' निर्ग्रन्थो ' भगवान् वीरस्वस्येति गाथार्थः ।। २६ ।।
For Private & Personal Use Only
w.jainelibrary.org