________________
किम्बहुना ? यत्केनचिद्दोषेण अनेषणीयमशुद्धं तत्सर्व विद्वान् परिज्ञाय परिहरेदिति गाथार्थः ॥ १४ ॥ किश्चआसूणिमक्खिरागं च, गिध्धुवघायकम्मगं । उच्छोलणं च ककं च, तं विजं परिजाणिया ॥१५॥
व्याख्या-येन आहारजान बलवानुपजायते तदाशूनीत्युच्यते, यदि वा 'आसूणीं'ति श्लाघा, श्लाषितः सन्कश्चिल्लघुप्रकृतिकः दध्मातत्वान् स्तब्धो भवति, तां वर्जयेत् । तथाऽक्षिरागं-अक्ष्णो रजनं शोभाकारी तदपि वर्जयेत् । । तथा रसेषु विषयेषु वा गृद्धि तथोपघातकर्म येनकेनचित्कर्मणाऽपरेषां जन्तूनामुपघातो भवति । तथा 'उच्छोलणं'ति अयतनया शीतोकादिना (वा) हस्तपादादिक्षालनं, तथा 'कल्कं शरीरोद्वर्तनक, तदेतत्सर्व कर्मबन्धहेतुं ज्ञात्वा विद्वान् परिहरेदिति गाथार्थः ॥ १५॥ तथा चसंपसारी कयकिरिए, पसिणायतणाणि य । सागारियं च पिंडं च, तं विजं परिजाणिया ॥१६॥
व्याख्या-असंयतैः समं ' सम्प्रसारणं' पर्यालोचनं परिहरेत् । एवं असंयमानुष्ठानं प्रत्युपदेशदानं कयकिरिए ' ति कृता अशोभना गृहकरणादिका क्रिया येन स कृतक्रियस्तस्य प्रशंसनं-असंयमानुष्ठानप्रशंसनं परिहरेत् । तथा 'प्रश्नस्य' दीपावतारादेः आविष्करणं यदिवा लौकिकव्यवहारप्रश्ननिर्णयनानि 'सागारिकः' शय्यातरस्तस्य पिण्डं यदिवा 'सागारिकपिण्डं ' सूतकगृहपिण्डं जुगुप्सितं वापसदपिण्डं वा, तदेतत्सर्व विद्वान् परिहरेदिति गाथार्थः ।। १६ ॥ अट्रावयं न सिक्खिज्जा, वेहाईयं च नो वदे। हत्थकम्मं विवायं च, तं विजं परिजाणिया ॥ १७ ॥
For Private
Jain Education Inter
jainelibrary.org
Personal Use Only