SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Jain Education le शरभादयः, जरायुजा - गोमहिष्यादयः, रसा-दधिसौवीरकादेर्जाता रसजास्तथा संस्वेदजा - यूकामत्कुणादयः, उद्भिजा:खञ्जरीटकदर्दुरादय इति । अज्ञातभेदा हि दुःखेन रक्ष्यन्त इत्यतो भेदेनोपन्यास इति ( गाथार्थः) ॥ ८ ॥ एतेहिं छहिं काहिं, तं विजं परिजाणिया । मणसा कायवक्केणं, णारंभी ण परिग्गही ॥ ९ ॥ व्याख्या - साधुरेभिः पूर्वोक्तः षद्भिरपि कायैः सस्थावररूपैः [सूक्ष्मबादर ]पर्याप्तापर्याप्तकभेदभिन्नैर्नारिम्भी न परिग्रहीयात् । तदेतद्विद्वान् श्रुतिको ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया च मनोवाक्कायकर्मभिर्जीवोपमर्दकारिणमारम्भं परिग्रहं च परिहरेदिति गाथार्थः ॥ ९ ॥ शेषव्रतान्यधिकृत्याह मुसावायं बहिद्धं च, उग्गहं च अजाइया । सत्थादाणाई लोगंसि, तं विज्जं परिजाणिया ॥ १० ॥ व्याख्या - मृषावादं ' बहिद्धं 'ति मैथुनं ' अवग्रहं ' परिग्रहमयाचित-मदत्तादानं, एतानि च मृषावादादीनि प्राण्युपतापकारित्वात् शस्त्राणीव-शस्त्रप्रायाणि वर्तन्ते, ततश्च कर्मोपादानकारणान्यप्यस्मिँल्लोके वर्तन्ते । तदेतत्सर्वं विद्वान् ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यान परिज्ञया च परिहरेदिति गाथार्थः ॥ १० ॥ किञ्च - पलिउंचणं च भयणं च, थंडिल्लुस्सयणाणि या । धूणादाणाई लोगांस, तं विजं परिजाणिया ॥११॥ व्याख्या–पञ्चमहाव्रतधारणमपि कषायिणो निष्फलं स्यात्, अतस्तत्साफल्यापादनार्थं कषाय निरोधो विधेय इति । तत्र 'पलिउंचणं (परिकुश्चनं ) माया ' भजनो ' लोभः ' स्थंडिल: ' क्रोधः 'उच्छ्रयो ' मानः, एतानि दर्शयति For Private & Personal Use Only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy