SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग सूत्रं दीपिकान्वितम् । ॥११०॥ Jain Education भिक्षुर्जिनैशहितो मार्गः सम्यग्दर्शनज्ञानचारित्रात्मकस्तं ' चरेत् ' अनुतिष्ठेदिति गाथार्थः ॥ ६ ॥ अपि चचिच्च वित्तं च पुत्ते य, णाईओ य परिग्गहं । चिच्चा ण अंतगं सोयं, निरवेक्खो परिए ॥ ७ ॥ 4 व्याख्या - त्यक्त्वा वित्तं पुत्रान् ज्ञातस्तथा परिग्रहं च सर्व ममतारूपं त्यक्त्वा, णकारो वाक्यालङ्कारे, अन्तं गच्छतीति अन्तगो- दुष्परित्यज इत्यर्थः । अन्तको वा विनाशकारीत्यर्थः । आत्मनि वा गच्छतीति आत्मगः, आन्तर इत्यर्थः । एवम्भूतं शोकं त्यक्त्वा' परित्यज्य, श्रोतो वा मिध्यात्वाविरतिप्रमादकषायात्मकं, अनन्तगं अपारं वा परित्यज्य 'निरपेक्ष: ' सर्वममतास्नेहसम्बन्धशून्यः सन् मोक्षाय परिव्रजेत्, संयमानुष्ठाने तिष्ठेत् । य एवं संयमानुष्ठाने यतते स साधुर्विज्ञेय इति गाथार्थः ॥ ७ ॥ स एवं साधु हिंसादिषु व्रतेषु प्रयतेत, तत्राहिंसाप्रसिद्ध्यर्थमाह पुढवी आऊ अगणी वाऊ, तणरुक्खसबीयगा । अंडया पोयजराऊ - रससंसेतउब्भिया ॥ ८ ॥ व्याख्या - * पृथिवीकायिकाः सूक्ष्मवादरपर्याप्तकापर्यातकभेदेन भिन्नाः, तथा अकाय- अग्निकाय - वायुकायिकाचैवम्भूता एवं वनस्पतिकायिकांल्लेशतः समेदानाह - तृणानि कुशादीनि वृक्षाभूताशोकादिकाः, सबीजा - बीज सहिताः, शालिगोधूमादीनि, एते एकेन्द्रियाः । पञ्चेन्द्रियानाह - अण्डजाः - शकुनिगृहको किलसरीसृपादयः, पोतजा :- हस्ति** नास्त्येतचिह्नान्तर्गतो वृत्तिपाठः पुन्यपत्तनीयप्रतिद्विकेऽपि । For Private & Personal Use Only ९ धर्माध्ययने षड्जीव निकाय - स्वरूपम् । ॥११०॥ www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy