________________
यावत्परिव्रजेरिति संयमाऽनुष्ठानं कुर्यास्त्वमिति गाथार्थः ॥ २७ ॥ इतिः परिसमाप्त्यर्थे, नवीमीति पूर्ववत् । इति श्रीपरमसुविहितखरतरगच्छविभूषणश्रीमत्साधुरङ्गगणिवरगुम्फितायां श्रीमत्सूत्रकृताङ्गदीपिकायां
वीर्याध्ययनमष्टमं परिपूर्णम् । अथ नवमं धर्माध्ययनं प्रारभ्यते ।
कयरे धम्मे अक्खाए ?, माहणेण मईमया। अंजु धम्मं अहातच्चं, जणगा ! तं सुणेह मे ॥ १॥
व्याख्या-जम्बूस्वामी सुधर्मस्वामिनमुद्दिश्येदमाह-कतरः' किम्भूतो धर्म 'आख्यातः' कथितो 'माहणेणं 'ति भगवता श्रीवर्द्धमानस्वामिना, कथम्भूतेन ? मतिमता, इति पृष्टे सुधर्मस्वाम्याह-'ऋजु' मायाप्रपञ्चरहितमवर्क 'अहातचं' यथावस्थितं मम कथयतः शृणुत यूयं हे 'जनकाः' जनाः ! ( यथा) भगवता प्रतिपादितं मया चाकर्णितं तथा भवतां कथयामि, यूयं शृणुतेति गाथार्थः॥१॥
धर्मप्रतिपक्षभूतोऽधर्मस्तदाश्रितांस्तावदर्शयितुमाहमाहणा खत्तिया वेस्सा, चंडाला अदु बोक्सा। एसिया वेसिया सुद्दा, जे य आरंभनिस्सिया ॥ २ ॥
Jan Education
a
l
For Private & Personal Use Only