SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ 1८ वीर्या| ध्ययने निष्फलानि तपोऽनुष्ठानादीनि ॥१०८का सूयगडा-IVI पूजासत्कारादिकते कृतं संयमपालनादिन निर्जराय जायते. यत्पनः कृतं तपोऽध्ययनादि अन्ये श्रावकादयो न जानन्ति । तथा विधेयं, तपोनियमाभिग्रहादिकं क्रियमाणं अन्ये श्रावका लोकाश्च न जानन्ति तथा विधेयं, यदि लोकानां पुरः प्रका. दीपिका- श्यते, आत्मश्लाघा स्वयमेव क्रियते तदपि तपो न निर्जरायै भवति । अत एवोक्तं-" न सिलोगं पवेयए " नैवात्मश्लाघां न्वितम् । 'प्रवेदयेत् ' प्रकाशयेत् , स्वयं प्रकाशनेन स्वकीयमनुष्ठानं फल्गुतामापादयेदिति गाथाऽर्थः ४ ॥ २५॥ अप्पपिंडासि पाणासि, अप्पं भासेज सुबए। खंतेऽभिनिव्वुडे दंते, वीतगिद्धी सदा जए ॥२६॥ ___ व्याख्या-अल्पपिंडाशी अल्पपानकः 'अल्पभाषको' मितभाषी, सर्वदा विकथारहितः, तथा सुव्रतः, 'खंते' 'क्षान्तः'क्षमावान् 'अभिनिव्वुडे' अभिनिवृतो लोभादिजयात् 'दान्तो' जितेन्द्रियः, यतः "कषाया यस्य नो छिन्ना, यस्य नात्मवशं मनः। इन्द्रियाणि न गुप्तानि, प्रव्रज्या तस्य जीवनम् ॥१॥" तथा वीतगृद्धिराशंसादोषरहितः, एवंविधः साधुः सदा' सर्वकालं संयमानुष्ठाने यतेत-यत्नं कुर्यादिति गाथाऽर्थः ॥ २६ ॥ झाणजोगं समाहद्द, कार्य विउसेज सबसो। तितिक्खं परमं नच्चा, आमोक्खाए परिवएजासि तिबेमि॥ व्याख्या:-ध्यानयोगं समाहृत्य 'कार्य' देहमकुशलयोगेषु प्रवृत्तं 'व्युत्सृजेत् ' परित्यजेत् 'सर्वतः' सर्वप्रकारेण, इस्तपादादिकमपि परपीडाकारी न व्यापारयेत् । तथा 'तितिक्षा क्षमा ‘परमां' प्रधानां ज्ञात्वा 'आमोक्षाय' अशेषकर्मक्षयं x आत्मख्यातिनिमित्तं कृतं ख्यातिकरमेव स्यात, न परलोकसाधकमिति भावः । बालवीर्यवतः। |॥१०८॥ Jan Education anal For Private & Personal Use Only wow.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy