________________
यदि वा अबुद्धा इव बालवीर्यवन्तस्तथा 'महाभागाः' महापूज्या लोकविख्यातास्तथा 'वीराः' सुभटाः, परं 'असम्यक्त्व. दर्शिनः' सम्यक्त्वविकला मिथ्यादृष्टयः, एवंविधा ये केचन, तेषां बालानां यस्किमपि तपोदानाध्ययनयमनियमादिषु 'पराक्रान्तं ' उद्यमः कृतस्तत्सर्वमशुद्धं, सम्यक्त्वविकलत्वात् , सम्यक्त्वविकलैर्हि यत्किश्चित्तपोदानाध्ययनादि विधीयते तदशुद्धम् । अविशुद्धकारि केवलं कर्मबन्धाय, न स्वल्पाऽपि काऽपि निर्जरा । अत एवोक्तं तच्च तेषां पराक्रान्तं ' सफल' सहफलेन-कर्मवन्धेन वर्तत इति । सर्वाऽपि तत् क्रियातपोऽनुष्ठानादिका कर्मबन्धायैवेति गाथाऽर्थः ॥ २३ ॥
साम्प्रतं पण्डितवीर्यमधिकृत्याऽहजे य बुद्धा महाभागा, वीरा सम्मत्तदसिणो । सुद्धं तेसिं परकंतं, अफलं होइ सबसो ॥ २४ ॥
व्याख्या-ये केचन 'बुद्धा'स्तीर्थङ्करास्तच्छिष्या गणधरादयो वा ' महाभागा' महापूज्या जगद्विश्रुता ' वीराः', कर्मविदारणप्रत्यलाः ज्ञानादिभिर्गुण विराजमानाः, तथा 'सम्यक्त्वदर्शिनः' परमार्थतत्ववेदिनस्तेषां भगवतां यत्'पराक्रान्तं ' तपोऽध्ययनयमनियमादावनुष्ठितं तच्छुद्धऽमवदातं, सर्वदोषाकलङ्कितं, कर्मबन्धं प्रत्यफलं भवति, निर्जरार्थमेव भवतीत्यर्थः । एतावता सम्यग्दृशां सर्वमनुष्ठानं पण्डितवीर्य निर्जराहेतुरेव स्यादिति गाथाऽर्थः ॥ २४ ॥ तेसि पि तवो असुद्धो, निक्खंता जे महाकुला। जं नेवऽन्ने वियाणंति, न सिलोगं पवेयए ॥२५॥
व्याख्या-ये महाकुलोत्पन्ना अपि पूजासत्कारादिहेतवे तपोदानाऽध्ययनादिकं कुर्वन्ति तेषामपि तत्कृतमनुष्ठानमशुद्ध,
Join Education International
For Private
Personal Use Only