________________
सूयगडाङ्गसूत्रं
दीपिकान्वितम् ।
1120911
' सादि[कं ]तं ' समायं मृषावादं न ब्रूयात्, एतावता यो हि परवञ्चनार्थं मृषावादः स परिह्रियते यस्तु संयम गुप्त्यर्थं 'न मया मृगा उपलब्धा' इत्यादिकः स न दोषायेति । एष धर्मः श्रुतचारित्राऽख्यो 'वुसीमओ 'त्ति वश्येन्द्रियस्य साधोsaor इति गाथाsर्थः ॥ २० ॥ अपि च
अतिकमति वायाए, मणसा वि ण पत्थए । सबओ संवुडे दंते, आयाणं सुसमाहरे ॥ २१ ॥
व्याख्या - अतिक्रमं पञ्चानां महाव्रतानां मानावष्टब्धतया परतिरस्कारं वा वाचा मनसा [ऽपि ] च न प्रार्थयेत् । एतद्वयनिषेधे कायातिक्रमोऽपि निषिद्धः । एतावता मनोवाक्कायैः कृतकारितानुमतिभिश्चातिक्रमं न कुर्यात् । सर्वतः संवृतो दान्तः सन् साधुर्मोक्षस्यादान - मुपादानं सम्यग्दर्शनादिकं आहरे-दाददीत, गृह्णीयादिति गाथाऽर्थः ॥ २१ ॥ किञ्च - कडं च कज्जमाणं च, आगमिस्सं च पावगं । सवं तं नाणुजाणंति, आयगुत्ता जिइंदिया ॥ २२ ॥
व्याख्या– साधूदेशेन यदपरैरनार्यप्रायैः कृतं पापकं कर्म वर्त्तमाने काले च क्रियमाणं तथाऽऽगामिनि च काले यत्करिष्यते तत्सर्वं मनोवाक्कायकर्मभि ' ननुजानन्ति ' नानुमोदन्ते । के नानुजानन्ति ? ' आयगुत्ता जिइंदिया ' इति आत्मगुप्ताः संवृतात्मानो जितेन्द्रियाः साधव इति गाथाऽर्थः ॥ २२ ॥
Jain Education International
जे | अबुद्धा महाभागा, वीरा असमत्तदसिणो । असुद्धं तेसि परकंतं, सफलं होइ सवसो ||२३|| व्याख्या—ये केचन ' अबुद्धा! ' अविज्ञातधर्मपरमार्थाः पल्लत्रग्राहिणः किञ्चिज्ज्ञतया जातावलेपाः पण्डितमानिनः,
For Private & Personal Use Only
८ वीर्याध्ययने निःशेषकर्म
क्षय फलत्वं पण्डित
मरणस्य ।
॥१०७॥
www.jainelibrary.org