________________
वृत्ति कुर्यात् । श्रुतं मया इह मनुष्यजन्मनि एकेषां तीर्थकरादीनां वाक्यं, वीरस्यैतदेव वीरत्वं, येन कषाया(णां)नां (1) विजयः क्रियते, येन बलेन सङ्ग्रामशिरसि महति सुभटसङ्कटे परानीकं विजयते तत्परमार्थतो बीर्य न भवति, अपि तु येन क्रोधादीनां पराजयो विधीयते तद्वीरस्य वीरत्वमिति माथाऽर्थः ॥१८॥ ___ आयतटुं सुआदाय, एयं वीरस्स वीरियं । सातागारवणिहुए, उवसंतेऽणिहे चरे ॥ १९ ॥x
व्याख्या-'आयतो' मोक्षस्तदर्थ चारित्रमादाय यः क्रोधादीनां जयाय 'पराक्रमते ' उद्यम विधत्ते, एतद्वीरस्य वीरत्वं । यो धृतिबलेन कामक्रोधादिजयाय यतते स एव महान् वीरो नाऽपर इति । यः पुनः सातागारवनिभृतस्तदर्थमनुद्यमी तथा क्रोधाग्निजयादुपशान्त:-शीतीभूतः, तथा · निहा' माया न विद्यते यस्यासावनिहो-मायाप्रपश्चरहितः, तथा | मानलोमरहित इत्यपि द्रष्टव्यं, स चैवम्भूतः संयमाऽनुष्ठानं चरेदिति गाथाऽर्थः ॥ १९॥ तथाउडमहे तिरियं वा, जे पाणा तसथावरा । सव्वत्थ विरतिं कुजा, संति निवाणमाहियं ॥ २०॥
सुगमार्थोऽयं श्लोकः, परं नाऽयं श्लोकः सूत्रादर्शेषु दृष्टः, टीकायां तु दृष्ट इति, अत्राऽपि तेन लिखित इति ॥ पाणे य णातिवाएज्जा, अदिन्नं पिय णादए । सादियं ण मुसं वया, एस धम्मे वुसीमतो ॥२०॥
व्याख्या-प्राणप्रियाणां प्राणिनां प्राणानातिपातयेत्तथाऽपरेणादत्तं शिलाकामात्रमपि 'नाददीत' न गृह्णीयात् । तथा x अष्टादशतमस्योत्तरार्द्ध पूर्वाद्धं चास्य पद्यस्य पाठान्तरत्वेन विन्यस्तं वृत्तिकृत्पूज्यरतो न कार्या पद्याधिकत्वाशति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org