________________
एयगडाङ्गसूत्रं
दीपिकान्वितम् ।
॥१०४॥
Jain Education
षितात्मानः सन्तः प्राणिनां हन्तार: छेत्तारः प्रकर्त्तयितारश्च भवन्ति । कामभोगेच्छवः आत्मसुखाऽभिलाषिणश्च प्राणिनां धसका भवन्तीति गाथाऽर्थः ॥ ५ ॥
मणसा वयसा चैव, कायसा चेव अंतसो । आरओ परओ वा वि, दुहा वि य असंजया ॥ ६ ॥
व्याख्या - मनसा वाचा कायेन करणकारणाऽनुमतिभिश्चाऽन्तशः कायेनाशक्तोऽपि मनसैव तन्दुल मत्स्यवत् कर्म बध्नाति । तथा आरतः परतः - इहलोके परलोके च पर्यालोच्यमानास्ते स्वयं करणेन परकरणेन च ' असंयता' जीवोप घातकारिण एवेति गाथार्थः ॥ ६ ॥ साम्प्रतं जीवोपघातविपाकं दर्शयितुमाह-
वेराई कुई वेरी, तओ वेरेहिं रुद्धती । पावोवगा य आरंभा, दुक्खफासा य अंतसो ॥ ७ ॥
व्याख्या – वैरी-स जीवोपमर्द्दकारी जन्मशताऽनुबन्धीनि वैराणि करोति । ततः वैरादपरैर्वै रैरनुरुध्यते - सम्बध्यते । परम्परानुषङ्गी वैरं जायते । किमिति १ यतः ' पापोपगा' आरम्भाः सावद्यानुष्ठानरूपा 'अन्तशो' विपाककाले ' दुःखस्पर्शाः' असातोदयविपाकिनो जायन्ते इति गाथाऽर्थः ॥ ७ ॥ किञ्च -
संपराइयं नियच्छंति, अत्तदुक्कडकारिणो । रागद्दोसस्सिया बाला, पावं कुव्वंति ते बहुं ॥ ८ ॥ व्याख्या - कर्म द्विमेदं साम्परायिकं ईर्यापथिकं च । तत्र साम्परायिकं बादरकषायात्मकं जीवोपमर्दकत्वेन वैरानुषङ्गितया 'आत्मदुष्कृतकारिणः स्वपापविधायिनः सन्तो ' नियच्छंति ' बध्नन्ति के बध्नन्ति १ रागद्वेषाश्रिताः 'बालाः '
For Private & Personal Use Only
८ वीर्या
य
बालवीर्यत्वमसंयमे ।
॥ १०४ ॥
www.jainelibrary.org