SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ पमायं कम्ममाहंस, अप्पमायं तहाऽवरं । तब्भावादेसओ वा वि, बालं पंडियमेव वा ॥३॥ व्याख्या-प्रमादं कर्मवीर्य, अप्रमाद-मपरं-अकर्मवीर्यमित्याहुस्तीर्थकराः। तथा यः प्रमादी सन् यत् कर्म करोति, तत्कर्मवीर्य बालवीर्यमित्युच्यते । तथाऽप्रमत्तः सन् यत्कर्म करोति, तदकर्मवीर्य-पण्डितवीर्यमित्यभिधीयते । 'तभावादे सओ वा वि' यदा येन भावेन वीर्य स्फोरयति तदा तन्नाम व्यपदिश्यते प्रमादवीर्यमप्रमादवीय चेति । तत्रापि प्रमत्तस्य कर्मवीर्य-चालवीय, अप्रमत्तस्य अकर्मवीय-पण्डितवीर्यम् । तत्र बालवीर्यमभव्यानां अनाद्यपर्यवसितं भव्यानामनादिसपर्यवसितं चेति, पण्डितवीयं तु सादिसपर्यवसितमेव ।। ३ ।। तत्र प्रमादोपहतस्य सकर्मणो यद्वालवीयं तद्दर्शयितुमाहसत्थमेगे उ सिखंती, अतिवायाय पाणिणं । एगे मंते अहिज्झति, पाणभूयविहेडिणो॥४॥ व्याख्या-तत्र ['शस्त्रं 'खड्गादिप्रहरणं ] शास्त्रं [वा] धनुर्वेदायुर्वेदादिकं येऽभ्यसन्ति तत्प्राणिनामतिपाताय जायते, प्राणिघाताय स्यात् । तथा मन्त्रान् अभिचारकानाथर्वणान् अश्वमेधपुरुषमेधसर्वमेधयागार्थमधीयते । कथम्भूतान् मन्त्रान् ? प्राणभूतविहेटकान् पठन्ति । इत्येतत्सर्व बालवीर्यमिति गाथार्थः ॥ ४॥ माइणो कद्द मायाओ, कामभोगे समारभे । हंता छेत्ता पगत्तित्ता, आयसायाणुगामिणो ॥ ५॥ ___ व्याख्या-एके मायां कृत्वा-मायिनो भूत्वा कामभोगान् ' समारभन्ते ' सेवन्ते, एवं क्रोधिनो मानिनो लोभिन: सन्तः कामभोगान् सेवन्ते, ततश्च ते आत्मसुखार्थिनः आत्मसाताऽनुगामिनः स्वसुखलिप्सवो दुःखद्विषः कषायकलु Jain Education in For Privale & Personal Use Only ainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy