________________
एयगडा
८ वीर्या
पयने सकर्मा
दीपिकान्वितम् ।
कर्मकरूपंवीर्य ।
॥१०३॥
अथाष्टमं वीर्याध्ययनम् ।
- - - उक्तं सप्तममध्ययनं साम्प्रतमष्टममारभ्यते ॥ दुहा वेयं सुअक्खायं, वीरियंति पवुच्चती । किं नु वीरस्स वीरत्तं ?, कहं चेयं पवुच्चती ? ॥१॥
व्याख्या-'द्विधा' द्विप्रकारं चेदं प्रोच्यते वीर्य सुष्टु आख्यातं तीर्थकरैः, वीर्य जीवस्य शक्तिविशेष इत्यर्थः । तत्र किं ' वीरस्य ' सुभटस्य वीरत्वं ? केन वा कारणेनाऽसौ वीर इति कथ्यते । इति गाथाऽर्थः ॥१॥
अथ भेदद्वारेण वीर्यस्वरूपमाचिख्यासुराहकम्ममेगे पवेदिति, अकम्मं वा वि सुवया !। एतेहिं दोहि ठाणेहि, जेहिं दीसंति मच्चिया ॥२॥ | ___व्याख्या-तत्र एके 'कर्म' क्रियाऽनुष्ठानं, तदेव वीर्य प्रवेदयन्ति, द्वितीयं त्वकर्मवीयं वीर्यान्तरायक्षयजनितं जीवस्य सहज वीर्यमित्यर्थः । भो सुव्रता! एवम्भूतं पण्डितवीर्य जानीत यूयं, आभ्यामेव द्वाभ्यां सकर्मवीय अकर्मवीय इति स्थानाभ्यां व्यवस्थिता मनुष्या दृश्यन्ते, तथाहि-नानाविधासु क्रियासु प्रवर्त्तमानमुत्साहवलसम्पन्नं मनुष्यं दृष्ट्वा वीर्यवानयं मनुष्यः इत्येको भेदस्तथा तदावारककर्मणः क्षयादनन्तबलयुक्तोऽयं मनुष्य इति द्वितीयो भेदः । एतावता एकं सकर्मवीर्यमपरमकर्मवीय-जीवस्य सहज वीर्यमिति गाथाऽर्थः ॥ २॥
॥१०॥
Jain Education
onal
For Private
Personal Use Only
.lwww.jainelibrary.org