________________
सूयगडाङ्ग
सूत्रं
दीपिकान्वितम् ।
॥ १०२ ॥
Jain Education
व्याख्या - तथा यः साघुरज्ञातपिण्डः - अन्तप्रान्ताऽहारैराजीवति, नाऽप्युत्कृष्टेन लब्धेन मदं करोति, नाप्यन्तप्रान्तेन लब्धेन वालब्धेन वा दैन्यं भजते, नाऽपि पूजनसत्कारार्थं तपः करोति, रसेषु च गृद्धिं न कुर्यात्, तथा शब्देषु रूपेषु कामेषु वा गा नानयति, रागद्वेषौ त्यजति । एवंविधगुणोपशोभितः साधुर्भवति, नाऽपर इति गाथाऽर्थः ॥ २७ ॥ सवाई संगाई अइच्च धीरे, सवाई दुक्खाइं तितिक्खमाणे ।
अखिले अगिद्धे अणि यचारी, अभयंकरे भिक्खु अणाविलप्पा ॥ २८ ॥
व्याख्या - तथा यः सर्वसङ्गं बाह्यान्तरङ्गरूपं 'अतीत्य' त्यक्त्वा 'धीरो' विवेकी सर्वाण्यपि दुःखानि शारीर-मानसानि त्यक्त्वा, परीषहोपसर्गजनितानि ' तितिक्षमाणो 'ऽधिसद्दन् 'अखिलो' ज्ञान - दर्शन - चारित्रैः पूर्णः, कामेष्वगृद्धः - तथा अनियतचारी, जीवानामभयङ्करः, विषयकषायैरनाविलोडनाकुलाऽऽत्मा, संयममनुवर्त्तते, सः साधुरिति गाथाऽर्थः ॥ २८ ॥ किञ्च - भारस्स जाता मुणि भुंजएज्जा, कंखेज पावस्स विवेग भिक्खू |
दुक्खेण पुट्ठे घुयमातिएज्जा, संगामसीसे व परं दमेजा ॥ २९ ॥
व्याख्या—साधुः संयमभारस्य यात्रानिर्वाहाय शुद्धाहारग्रहणं करोति, तथा पूर्वार्जितस्य पापकर्मणो 'विवेकं ' पृथग्भावं विनाशमाकाङक्षेद्भिक्षुः - साधुर्दुःखेन परीषहोपसर्गजनितेन ' स्पृष्ट: ' व्याप्तोऽपि 'ध्रुवं संयमं मोक्षं वा आदत्ते । यथा कश्चित् सुभटः [ सङ्ग्रामशिरसि ] शत्रुभिरभिद्रुतोऽपि परं ' शत्रुं दमयति, एवं परीषहोपसर्गाभिद्रुतोऽपि
4
For Private & Personal Use Only
७ कुशीलपरिभाषा - ध्ययने
उत्तमसाधु
लक्षणम् ।
॥। १०२ ॥
www.jainelibrary.org