________________
'धावति' प्रक्षालयति, तथा यो वस्त्रं लूपयति-शोभार्थ दीर्घ सत्पाटयित्वा इस्वं करोति इस्वं वा सन्धाय दीर्घ करोति, अथासौ 'णागणियस्स'त्ति निर्ग्रन्थभावस्य संयमाऽनुष्ठानस्य दरे वर्त्तते, न तस्य संयमं प्राहुस्तीथेकरगणधरादया, न तस्य संयमो भवतीति गाथाऽर्थः ॥ २१॥ उक्ताः कुशीलास्तत्प्रतिपक्षभूताः शीलवन्तः प्रतिपाद्यन्ते इत्येतदाह
कम्मं परिन्नाय दगंसि धीरे, वियडेण जीविज य आदिमोक्खं ।
__ से बीयकंदाइ अभुंजमाणे, विरते सिणाणाइसु इत्थियासु ॥ २२॥ व्याख्या-उदकसमारम्मे सति कर्मबन्धो जायते, इत्येवं परिज्ञाय — विकटेन' प्रासुकोदकेन 'जीव्यात्' प्राणसन्धारणं कुर्यात् । अन्येनाऽपि प्रासुकेनैवाहारेण प्राणवृत्तिं कुर्यात् । 'आदिः' संसारस्तस्मान्मोक्षः आदिमोक्षस्त, संसारविमुक्तिं यावत् । अथवा आदिमोक्ष-यावजीवमित्यर्थः। तथा स साधु/जकन्दादि परिहरन् स्नानादिभ्यस्तथा स्त्रीभ्यश्च | विरतः सन् कुशीलदोषेर्न लिप्यत इति गाथार्थः ॥ २२ ॥
जे मायरं च पियरं च हिच्चा, गारं तहा पुत्तपसुं धणं च ।
_ कुलाई जे धावइ साउगाई, अहा हु से सामणियस्स दूरे ॥ २३ ॥ व्याख्या-ये केचन मातरं पितरं त्यक्त्वा, तथा अगारं पुत्रं पशुं धनं च त्यक्त्वा, सम्यक् प्रव्रज्यायामुत्थाय, पंच
Jain Education in
For Privale & Personal Use Only
O
w.jainelibrary.org