________________
एवं सिया सिद्धि हवेज तम्हा, अगणिं फुसंताण कुकम्मिणं पि ॥ १८॥ व्याख्या-ये दर्शिनिनो मूढा हुतेना-ऽग्नौ घृतादिप्रक्षेपेण सिद्धिमुदाहरन्ति, कथं ? ' सायं ' सन्ध्यायां प्रातःकाले अग्नि स्पृशन्तः यथेष्टेघृतादिद्रव्यैरग्नि तर्पयन्त सिद्धिगतिमभिलषन्ति, अग्निस्पर्शेण सिद्धिः, एवं ये उदाहरन्ति, तेषामुच्यते-यद्यग्निस्पर्शनतः सिद्धिस्तर्हि कुकमिणामङ्गारदाहककुम्भकारायस्कारादीनां सिद्धिः स्यात् , यदपि मन्त्रपूतादिभिरुदाहियते तदपि निरन्तराः सुहृदः प्रत्येष्यन्ति, न पुनरस्मादृशाः, कुकर्मिणामप्यग्निकार्ये भस्मापादनम् , एवमग्नि- IN होत्रकादीनामपि भस्मसात्करणं, को विशेषः १ अपि तु मन्त्रमणनेऽपि भस्मापादनानाऽन्यत् फलमिति गाथाऽर्थः ॥१८॥
अपरिक्ख दिलु ण हु एव सिद्धी, एहिंति ते घायमबुज्झमाणा।
भूएहिं जाणं पडिलेह सायं, विज्जं गहाय तसथावरोहिं ॥ १९॥ व्याख्या-यैरुदकस्पर्शेणाऽग्निहोत्रेण वा सिद्धिरभिहितास्तर परीक्ष्य दृष्टं' युक्तिविकलमभिहितं-अविचार्य प्रतिVIपादितं, यतो 'न हुनैव जलाऽवगाहनेनाऽग्निहोत्रेण वा सिद्धिः, प्राणिघातसम्मवात, प्राणिघाते च कुतो मोक्षाऽवाप्तिः?
ते चाऽज्ञानिनः प्राण्युपधातेन धर्मबुद्ध्या पापमेव कुर्वन्तः, स(१ ते) 'घातं' संसारमेष्यन्ति, अबुध्यमानाः परमार्थमिति अपकायतेजस्कायसमारम्भेण चाऽवश्यं त्रसस्थावरजीवघातः, तद्घाते च संसार एव, न सिद्धिरिति ।+यत एवं ततो विद्वान्
++ एत चिह्नान्तर्गतपाठस्थाने-" विद्वान्-सदसद्विवेकी यथावस्थिततत्त्वं गृहीत्वा प्रसस्थावरैर्भूतैः-जन्तुभिः कथं साम्प्रतंसुखमबाप्यते ?" इत्येवमस्ति बृहद्वृत्तौ ।
Jain Education International
For Privale & Personal use only
www.jainelibrary.org