________________
व्याख्या—ये केचन अज्ञानिनः 'उदकेन' जलाऽभिषेकेण मुक्तिमुदाहरन्ति, सन्ध्यायां प्रभाते मध्याह्ने च उदकस्पर्शनात् प्राणिनां मुक्त्यवाप्तिः, इत्येवं ये उदाहरन्ति, तन्मिथ्या । यदि जलस्पर्शादेव मुक्तिरुदाह्रियते तदा जलजन्तूनां त्रस स्थावराणां सर्वदैवाम्भोऽवगाहिनां मुक्तिरेव न संशयः, मत्स्यबन्धिनामपि मुक्तिरेव भविष्यति, न चैतत् सङ्गतं, तस्मामृषा भवदुक्तिः । यदपि भवद्भिरुच्यते - बाह्यमलापनयनसामर्थ्य उदकस्य दृष्टं तदपि विचार्यमाणं न घटते, यतो यथोदकमनिष्टं मलमपनयति एवमभिमतमप्यङ्गरागं कुङ्कुमादिकमपनयति, तथा चोदकाऽभिषेकेण यथा पातकमपयाति तथा पुण्यमपि प्रयाति, अङ्गलग्नविलेपनादिवत्, एवं तूदकस्नानमिष्टविघातकृत्, ततो न किञ्चिदिति । अतः पुण्यविधातकारित्वाञ्जलाऽभिषेकेण न मुक्तिरिति गाथाऽर्थः ॥ १४ ॥
मच्छाय कुम्मा य सिरीसिवा य, मग्गू य उद्या दगरक्खसा य । अट्ठामेयं कुसला वयंति, उद्गेण जे सिद्धिमुदाहरति ॥ १५ ॥
व्याख्या– यद्यम्भस्संसर्गेण मुक्तिस्तदा मत्स्याः कूर्माः सरीसृपाः मद्गवो - जलवायसाः उष्ट्राः जलचरविशेषाः 'दगरक्खसा' जलमानुषाः, एते सर्वेऽपि जलचरजीवाः मुक्तिगामिन एव, न चैतद्द्दष्टमिष्टं वा ततश्च ये उदकेन सिद्धिमुदाहरन्ति तदस्थान-मप्रमाणमयुक्तमित्यर्थः । [ अ ] साम्प्रतं (1) कुशलाः निपुणाः मोक्षमार्गाsभिज्ञाः एवं वदन्तीति गाथाऽर्थः ॥ १५ ॥ किश्वाऽन्यत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org