________________
७ कुशीलपरिभाषाध्ययने कुशीलमान्यताया वैविध्यम् ।
सूयगडाजमलं अग्नितापादुपयाति, एवमात्मनोऽप्यान्तरं पापं अग्नितर्पणात्प्रयाति ॥ १२ ॥
अर्थतेषां प्रवादिनामसम्बद्धप्रलापिनामुत्तरदानायाऽहदीपिका
पाओ सिणाणादिसु णत्थि मोक्खो, खारस्स लोणस्स अणासएणं । न्वितम् ।।
ते मजमंसं लसणं च भोच्चा, अन्नत्थ वासं परिकप्पयंति ॥ १३ ॥ ॥९८॥ व्याख्या-प्रातः स्नानादिषु नास्ति मोक्षः, यतो निशीलानामनाचारचारिणां प्रातर्जलावगाहनेन कुतो मोक्षावाप्तिः ।
आदिशब्दाद्धस्तपादक्षालनेऽपि न मोक्षः, यत उदकपरिभोगे तदाश्रितानां चराचराणां जीवानां घातः स्यात् , तद्धाताच्च कुतो मोक्षाऽवाप्तिरिति ?, अथ यथा बाह्यशुद्धिरुद केन दृष्टा तथाऽऽन्तरशुद्धिरपि भविष्यति, न चैवं, अन्तःशुद्धिर्भावशुद्धया स्यात् , भावशुद्धिं विनाऽपि चेदन्तरङ्गशुद्धिःप्रतिपाद्यते तदा मत्स्यबन्धादीनामपि जलाभिषेकेण मुक्त्यवाप्तिर्भविष्यति, न च दृष्टा । तथा लवणवर्जनेन चेन्मोक्षस्तदा लवणवर्जिते देशे लोकानां न मोक्षादन्या गतिः १ परमसम्बद्धभाषिणो यूयमिति । पुनस्ते कुतीथिका मद्यमांसलशुनादिकं भुक्त्वा मोक्षादन्यत्र वासं परिकल्पयन्ति, कोऽर्थः ? मद्यमांसलशुनादिभोजिनां हि संसार एव वासः, न मोक्षाऽवाप्तिरिति गाथार्थः ।। १३ ।। साम्प्रतं विशेषेण परिजिहीर्षुराह
उदएण जे सिद्धिमुदाहरंति, सायं च पायं उदगं फुसंता। उदगस्स फासेण सिया य सिद्धी, सिझिसु पाणे बहवे दगंसि ॥१४॥
॥९८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org