________________
मोक्षार्थी संसारं पर्यटतीति गाथाऽर्थः ॥ ११ ॥ उक्तः कुशीलविपाकोऽधुना तदर्शनान्यभिधीयते
इहेगमूढा पवयंति मोक्खं, आहारसंपजणवजणेणं ।
एगे य सीओदगसेवणेणं, हुएण एगे पवयंति मोक्खं ॥ १२ ॥ व्याख्या-इह मोक्षगमनाधिकारे, एके 'मूढा' अज्ञानिन एवं प्रवदन्ति-आहार सम्पजनक' लवणं, तद्वर्जनेन मोक्षावाप्तिः, + येन सर्वरससारभूतं लवणं "लवण विहूणा रसवहव्व" इति वचनात् । पाठान्तरेण-आहारओ पंचकवजणेण" आहारमाश्रित्य पश्चकं वर्जयन्ति । तथाहि-लशुनं १ पलाण्डुः२ करभीक्षीरं ३ गोमांसं ४ मयं ५ चेत्येतत्पश्चकवर्जनेन मोक्षं प्रवदन्त्येके । तथा एके-शीतोदकपरिभोगेन मोक्षं प्रवदन्ति, तथा च तद्युक्ति:-यथा च शीतोदकेन बाह्यमलमपयाति वस्त्रादेश्च यथोदकात् शुद्धिः-शरीरशुद्धिः। एवं बाह्यशुद्धिर्यथोदकादुपजायते तथाऽऽन्तरशुद्धिरप्युदकाजायते, एके एवं मन्यन्ते । तथाऽपरे तापसब्राह्मणादयो हुतेन मोक्षं वदन्ति । ये स्वर्गादिफलमनाशंस्य घृतादिभिरनिं तर्पयन्ति तदा मोक्षावाप्तिः । अन्ये त्वम्युदयनिमित्तमग्नि तर्पयन्ति तेषामहिकं फलं । तथा च ते युक्तिमुदीरयन्ति, यथा सुवर्णादीनां
+ यथा सर्वरसानां सारभूतं लवणं, लवणपरित्यागे सर्वरसपरित्यागः, सर्वरसपरित्यागे मोक्षः, एवमेके वदन्ति अज्ञानिनः | इति टिप्पनं हालाकीयप्रतौ । १ लवणविहीना रसवती इव ।
Jain Education Inter
For Privale & Personal use only
ainelibrary.org