SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग पत्रं दीपिकान्वितम् । ॥ ९७ ॥ भाइ मिति बुयाऽबुवाणा, णरा परे पंचसिहा कुमारा । जुवाणगा मज्झिमथेरगा य, चयंति ते आउखए पलीणा ॥ १० ॥ व्याख्या - इह वनस्पतिकायोपमर्दकाः बहुषु जन्मसु गर्भादिकास्ववस्थासु कललार्बुदमाँसपेशीरूपासु म्रियन्ते । ब्रुवन्तोऽब्रुवन्तो व्यक्तवाचोऽव्यक्तवाचस्तथा पञ्चशिखाः कुमाराः युवानो मध्यमवयसः ' स्थविराश्व ' अत्यन्तवृद्धाः सन्तः सर्वास्वय्यवस्थासु बीजादीनां ध्वंसकाः स्वायुषः क्षये देहं त्यजन्ति प्रलीनाः सन्तः, एवं न केवलं वनस्पतिकायोपमर्दकाः, सर्वस्थावरजङ्गमोपमर्दकारिणोऽप्यनियतायुष एव, यावगृहकार्यचिन्ताभारोद्वहनक्षमा जातास्तावता अपूर्ण मनोरथा एव स्वपरिवारस्य दुःखं दत्वा उत्थाय परलोकं प्रयान्तीति गाथार्थः ॥ १० ॥ किञ्च – संबुज्झह जंतवो ! माणुसत्तं, दहुं भयं बालिसेणं अलंभो । rinदुक्खे जरिए व लोए, सकम्मुणा विप्परियासुवेति ॥ ११ ॥ व्याख्या– हे जन्तवः ! सम्बुध्यध्वं नहि कुशीललोकत्राणाय भवति, धर्मं च सुदुर्लभं जानन्तु । अकृतधर्माणां च मानुषत्वमतिदुर्लभं । तथा सर्वगतिषु दुःखरूपासु भयं जन्मजरामरणरोगशोकादिभवं दृष्ट्वा 'बालिशेन' निर्विवेकेन सद्विवेकप्राप्तिदुर्लभा इत्येतदपि बुध्यध्वम् । एकान्तदुःखोऽयं ज्वरित इव लोकः । ईदृक्स्वरूपे लोके अनार्यकर्मकारी कर्मणां विपर्यासमुपैति । आत्मसुखार्थी जीवघातादि कुरुते तद्विपर्यासं सुखार्थी दुःखमेव लभते । प्राणिनां दुःखोत्पादनेन दुःखं प्राप्नोति । Jain Education International For Private & Personal Use Only ७ कुशीलपरिभाषा - ध्ययने कुशीलविपाकः । ॥ ९७ ॥ www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy