SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ व्याख्या-'हरितानि' दुर्वाकुरादीनि, तान्यपि ' भूतानि ' जीवाः कथं ? आहारादेव वृद्धिदर्शनात् । तद्विना च म्लायन्ति, अत एव जीवाकारं विलम्बयन्ति ' धारयन्ति । यथा मनुष्यः कललार्बुदमांसपेशीगर्भप्रसवबालकुमारतरुण स्थविराद्यवस्थां धारयति, तथा वनस्पतिरपि अङ्कर-मूल-स्कन्ध-पत्र-शाखादिविशेषैः परिवर्द्धमानाः युवानः पोता इत्युपदिश्यन्ते । तथा शाल्यादीनि जातान्यभिनवानि, सञ्जातरसानि यौवनवन्ति, परिपक्कानि जीर्णानि, परिशुष्कानि मृतानि । एवं हरितादीन्यपि जीवाकारं धारयन्ति । तत एतानि मूल-स्कन्ध-शाखा-पत्र-पुष्पादिषु पृथक् प्रत्येकजीवानि, न तु मूलादिषु सर्वेष्वप्येक एव जीवः । एतानि च भूतानि आत्मसुखार्थी यो हिनस्ति स प्रागल्भ्यात्-धाविष्टम्भात् बहूनां प्राणिनामतिपाती, तदतिपाताच निरनुक्रोशतया न धर्मो नाऽप्याऽऽत्मसुखमिति गाथाऽर्थः ॥ ८॥ किश्च जातिं च बुद्धिं च विणासयंते, बीयाइ अस्संजय आयदंडे । अहा हु से लोएँ अणजधम्मे, बीयाइं जे हिंसति आतसाते ॥ ९ ॥ व्याख्या-हरितकायानां जातिमुत्पत्ति वृद्धिं च विनाशयन् ' असंयतो' गृहस्थः प्रव्रजितो वा आत्मदण्डको ज्ञेयः।। स हि जीवोपघातात्परमार्थतः आत्मानमेवोपहन्ति, एवमाहु-रुक्तवन्तस्तीर्थकराः, यो हरितादिछेदकः सोऽस्मिल्लोके अनार्यधर्मा-क्रूरकर्मकारी शेयः, धर्मोपदेशेन आत्मसुखार्थ वा वनस्पतिकार्य करणकारणाऽनुमतिभेदेन समारम्भते, स पाखण्डिकलोकोऽन्यो वा अनार्यधर्मा भवतीति गाथाऽर्थः ॥९॥ १७ Jain Education a l For Privale & Personal use only Trww.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy