SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Jain Education International व्याख्या - योऽग्निकार्यं समारभते, सोऽग्निकाय मन्यांश्च सस्थावरान् पृथिव्या [द्या]श्रितान् अतिपातयेत् । तथाऽग्निकायमुदकादिना निर्वापयन्' विध्यापयँस्तदाऽश्रितानन्यश्च प्राणिनोऽतिपातयेत् । एवमुभयथाऽपि प्राणाऽतिपात इति, यस्मादेवं तस्मात् पण्डितो - विवेकी 'समीक्ष्य' स्वबुद्ध्या पर्यालोच्य नाऽग्निकार्य समारम्भते । पण्डितोऽपि स एव, योऽ. ग्निकार्य न समारम्भते इति गाथार्थः || ६ || अग्निसमारम्भे कथमपरप्राणिवधः स्यात् इत्याशङ्क्याह पुढवी वि जीवा आऊ वि जीवा, पाणा य संपाइम संपयंति । संसेयया कटुसमस्सिया य, एते दहे अगणिसमारभते ॥ ७ ॥ व्याख्या - पृथिवीजीवा आपोजीवास्तथा सम्पातिमाः शलभादयः [ तत्राग्नौ ] सम्पतन्ति तथा संस्वेदजाः करीषादिविन्धनेषु घुणपिपीलिकाकृम्यादयः काष्ठाद्याश्रिताश्च ये केचन । 'एतान् ' स्थावरजङ्गमान् प्राणिनः स दहेत् योऽग्निकार्य समारम्भते । अतोऽग्रिसमारम्भो महादोषाय । यतः श्रीउत्तराध्ययने ३५चमेऽध्ययने " तवं भत्तपाणेसु, पयणे पयावणेसु य । पाणभूयदयट्ठाए, तम्हा भिक्खू न पए न पयावर ॥ १ ॥ " १ तथैव भक्तपाने पचने पाचनेषु च । प्राणिभूतदयार्थी तस्माद्भिक्षुर्न पचेन्न पाचयेत् ॥ १ ॥ जलधान्यनिश्रिता जीवाः पृथ्वीकाष्ठनिश्रिताः । हन्यते भक्तपानेषु तस्माद्भिक्षुर्न ( पचेन्न ) पावयेत् ॥ २ ॥ विसर्पत्सर्वतो धारं बहुप्राणिविनाशनं । नास्ति ज्योतिस्समं शस्त्रं तस्माज्ज्योतिषं न दीपयेत् ॥ ३ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy