________________
प्राधान्येन व्यवस्थितः । तथा निर्वाणवादी(नां मध्ये ) भगवान् ज्ञातपुत्रः, यथाऽवस्थितनिर्वाणार्थवादित्वादिति गाथार्थः ॥२१॥
जोहेसु णाए जह वीससेणे, पुप्फेसु वा जह अरविंदमाह।
खत्तीण सिट्टे जह दंतवके, इसीण सिट्टै तह वद्धमाणे ॥ २२ ॥ व्याख्या-यथा ' योधेषु' सुभटेषु मध्ये 'विश्वसेनः' चक्रवर्तिः प्रधानभूतः, यथा पुष्पेष्वरविन्दं प्रधानमाहुः । क्षत्रियाणां मध्ये दान्तवाक्य-श्चक्रवर्ती, यस्य वचसैव शत्रवो 'दान्ता' उपशान्ता इति भावः । सर्वक्षत्रियेषु चक्रवर्ती श्रेष्ठः, तथा ऋषीणां मध्ये श्रीवर्द्धमानस्वामी श्रेष्ठ इति गाथार्थः ।। २२ ।।
___ दाणाण सेंटुं अभयप्पयाणं, सच्चेसु वा अणवजं वयंति ।
तवेसु वा उत्तमबंभचेरं, लोउत्तमे समणे नायपुत्ते ॥ २३ ॥ व्याख्या-यथा दानानां पञ्चविधानामपि मध्ये अभयदानं श्रेष्ठं, "दाणाणमभयदाणं" मिति वचनात् । यतः "दीयते म्रियमाणस्य, कोटिं जीवितमेव वा । धनकोटिं न गृह्णीयात्, सर्वो जीवितुमिच्छति ॥१॥" | यथा सत्येषु वाक्येषु यद'नवा ' अपापं-परपीडानुत्पादकं वाक्यं श्रेष्ठं, तपस्सु मध्ये यथोत्तमं ब्रह्मचर्य प्रधानं भवति । तथा लोकेवृत्तमः श्रमणो ज्ञातपुत्र इति गाथार्थः ॥ २३ ॥
ठितीण सिट्टा लवसत्तमा वा, सभा सुहम्मा व सभाण सिट्ठा ।
Jain Education Interational
For Privale & Personal use only
www.jainelibrary.org