SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Jain Education व्याख्या - स भगवान् शैलेश्यवस्थायां *शुक्लध्यान चतुर्थभेदाऽनन्तरं साद्यपर्यवपानां सिद्धिगतिं प्राप्तः । कथम्भूतां सिद्धिगति ? अनुत्तराग्र्यां, अनुत्तरा - सर्वोत्तमा, अय्या च लोकाग्रव्यवस्थिता । एवंविधां परमां ' प्रधानां, महर्षिरशेषं कर्म विशोध्य -अपनीय विशिष्टेन ज्ञानेन दर्शनेन शीलेन च सिद्विगर्ति सम्प्राप्त इति गाथार्थः || १७ || पुनर्भगवतः स्तुतिमाहरुक्खेसु णाए जह सामली वा, जंसी रतिं वेययंती सुवन्ना । वणेसु वा णंदणमाहु से, नाणेण सीलेण य भूतिपपणे ॥ १८ ॥ व्यारूपा - वृक्षेषु यथा देवकुरुव्यवस्थितः शाल्मलीवृक्ष ज्ञातः - प्रसिद्धि प्राप्तः । यत्र सुपर्णकुमाराः - भवनपतिदेवविशेषाः अन्यतोऽप्यागत्य क्रीडारतिं वेदयन्ति, क्रीडां कुर्वन्तीत्यर्थः । वनेषु मध्ये यथा नन्दनं वनं ' श्रेष्ठं' प्रधानं तदपि देवानां क्रीडास्थानं । तथा ज्ञानेन केवलाऽख्येन शीलेन चारित्रेण यथाख्यातेन ' श्रेष्ठः ' प्रधानः, भूतिप्रज्ञः - प्रवृद्धज्ञानो भगवानपि ' श्रेष्ठ: ' प्रधानो महान् ज्ञेय इति गाथार्थः ॥ १८ ॥ थणियं व सद्दाण अणुत्तरे उ, चंदो व ताराण महाणुभावे । गंधे वा चंदणमा सेट्ठ, एवं मुणीणं अपडिन्नाहु ॥ १९ ॥ शुकुध्यानश्चतुर्धा - पुहुत्तवियक्के सवियारी १, एगत्तवियक अवियारी २, सुहुम किरिया अपडिवाई ३, समुच्छिन्न किरिए अनिट्टी ४ तृतीयभेदे केवलज्ञानोत्पत्तिः, अप्रतिपतनस्वभावत्वात् । १६ For Private & Personal Use Only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy