________________
सूयगडाङ्ग-IN
सूत्रं
वीरस्तुत्यध्ययने | शाल्मल्या
दीपिकान्वितम् । ॥९ ॥
घपमा
नत्वम्।
व्याख्या-यथा निषधाख्यो गिरिवरः सर्वगिरीणामायतानां मध्ये देध्येण श्रेष्ठः, तथा वलयायतानां मध्ये रुचको गिरिर्यथा प्रधानः, स हि रुचको मानुषोत्तरपर्वत इव वलयाकारेण व्यवस्थितोऽस्ति रुचकद्वीपे त्रयोदशमे, तथा भगवानपि तदुपमः । यथा निषधो दैर्येण प्रधानः, रुचको वलयाकारत्वेन सर्वगिरिषु श्रेष्ठः, तथाऽपरमुनीनां मध्ये प्रज्ञया-ज्ञानेन श्रेष्ठः, एवं तत्स्वरूपविद उदाहु-रुदाहृतवन्तः-उक्तवन्त इति गाथार्थः ॥ १५ ॥
__ अणुत्तरं धम्ममुईरइत्ता, अणुत्तरं झाणवरं झियाइ ।
सुसुक्कसुकं अपगंडसुकं, संखिंदुवेगंतऽवदातसुकं ॥ १६ ॥ व्याख्या-स हि भगवान् अनुत्तरं-सर्वोत्कृष्टं धर्म उदीरयित्वा-प्रकाश्यानुत्तरं ध्यानवरं ध्यायति । तथाहि-केवलज्ञानोत्पत्तेरनन्तरं सर्वोत्तमं धर्म प्ररूपयामास भगवाँस्तदनु योगनिरोधकाले सूक्ष्म काययोगं निरुन्धन् शुक्लध्यानस्य तृतीयं भेदं सूक्ष्मक्रियमप्रतिपाताख्यं ध्यायति, तदनु निरुद्धयोगश्चतुर्थ शुक्लध्यानभेदं व्युपरतक्रियमनिवृत्ताख्यं ध्यायति । तत्कथम्भूतं ? सुष्ठु-शुक्लबत-शुक्लम् 'अपगतगण्डं' निर्दोषाऽर्जुनसुवर्णवत् शुक्लं देदीप्यमानं, यदिवा [अप]गण्ड-मुदकफेनं, तत्तुल्यं, तथा शङ्खन्दुवदेकान्ताऽवदातं शुक्लध्यानोत्तरभेदद्वयं ध्यायतीति गाथार्थः ॥ १६ ॥ अपिच
अणुत्तरग्गं परमं महेसी, असेसकम्मं सुविसोहइत्ता।। सिद्धिं गते साइमणंतपत्ते, नाणेण सीलेण य दंसणेणं ॥ १७॥
|॥१०॥
Jain Education in
For Privale & Personal use only
NGTwww.jainelibrary.org