SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte व्याख्या - अथ मेरोरुपमया भगवतो वर्णनं, यथा सुदर्शनाऽख्यो मेरुः सर्वपर्वतेषु श्रेष्ठस्तथा भगवान् श्रीमहावीरः सर्वैश्वर्यगुणेन श्रेष्ठः । कथम्भूतो भगवान् ? ' से वीरिएणं पडिपुन्नवीरिए' वीर्येण बलधृतिसंहननादिभिः प्रतिपूर्णवीर्यः । तथा यथा मेरुः ' सुरालय: ' स्वर्गस्तन्निवासिदेवानां ' मुदाकरो ' हर्षजनकः, ( अनेकैर्गुणैः) प्रशस्त वर्णरसगन्धस्पर्शप्रभावादिभिरुपेतो विराजते, तथा भगवानपि सर्वगुणैरुपेतो विराजत इति गाथार्थः ॥ ९ ॥ सयं सहस्साण य जोयणाणं, तिकंडगे पंडगवेजयंते । से जोयणे णवणवतीसहस्से, उच्धुसिए हेट्ठसहस्तमेगे ॥ १० ॥ व्याख्या - स मेरुर्योजन सहस्राणां शतमुच्चैस्त्वेन कीर्त्यते । तथा ( त्रीणि कण्डकानि यस्य स ) त्रिकण्ड (क), भूमिमय १ - जाम्बूनदमय २ - वैडूर्यमय ३ - भेदात् । तथा पण्डकवैजयन्तः पण्डकवनं शिरसि व्यवस्थितं वैजयन्तीकरपंपताकाप्रायं विद्यते । तथा स मेरुर्नवनवतियोजन सहस्राण्यर्द्धमुच्छ्रितः, अघोयोजन सहस्रमवगाढ इति गाथार्थः ॥ १० ॥ पुट्ठेभे चिट्ठ भूमिवट्ठिए, जं सूरिया अणुपरियद्वयंति । सेमवन्ने बहुणंदणेय, जंसी रतिं वेदयंती महिंदा ॥ ११ ॥ व्याख्या—स मेरुर्नमोव्याप्य (भूमौ तिष्ठति, यं सूर्याद्याः सर्वेऽपि ज्योतिष्काः प्रदक्षिणया अनुपर्यटन्ति परिभ्रमन्तीत्यर्थः । ‘से हेमबन्ने' सुवर्णवर्णस्तथा बहुनन्दनः, तथाहि चत्वारि वनानि, तत्र भूमौ भद्रशालवनं, ततः पश्चयोजनशता For Private & Personal Use Only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy