________________
वीरस्तुत्यध्ययने समुद्रादेरौपम्यं ।
एयगडाङ्ग-प्रभावसम्पन्न इन्द्रो गीयते, यथा हि देवेन्द्रः सर्वदेवानां 'नेता' प्रणायको विशिष्टवलरूपैश्वर्यवर्णादिभिः प्रधानः, एवं |
धान एवं भगवानपि सर्वेभ्योऽपि जगजन्तुजातेभ्यो लोकोत्तरत्वाद् बलरूपवर्णादिभिः सर्वोत्तमः ‘लोकोत्तम' इति वचनात् दीपिका- | महानुभावश्चेति गाथार्थः ॥ ७ ॥ अपि चन्वितम् ।
से पन्नया अक्खयसागरे वा, महोदही वा वि अणंतपारे । ॥८८॥
अणाइले या अकसाइभिक्खू , सके व देवाहिवई जुईमं ॥ ८॥ व्याख्या-स भगवान् प्रज्ञया अक्षयः, न तस्य ज्ञेयवस्तुनि कापि प्रज्ञा क्षीयते, अनन्तप्रज्ञत्वात् । यथा सागरः अक्षयः 'महोदही वा' सामान्यसागरेभ्यो यथा महोदधिरिव-स्वयम्भूरमण इव, यथा महोदधिः सर्वसागरेभ्योऽधिक: 'अनन्तपारः' अलब्धपारो गम्भीरोऽक्षोम्यजलश्च, तथा भगवानपि स्वयम्भूमणादप्यनन्तगुणः । यथा सागरो ('अनाविल:-) अकलुषस्तथा भगवानपि कर्ममलाऽपगमादकलुषः । तथा अकषायी-कषायविषमुक्तः। तथा 'भिक्षुः' सर्वत्रैलोक्य. पूज्योऽपि भिक्षामात्रोपजीवित्वाद्भिक्षुरेवाऽसौ, नाऽक्षीणमहानसीलब्धिमुपजीवतीति । तथा पुनर्भगवान् कीदृशः ? शक्र इव-देवाऽधिपतिरिव द्युतिमान्-दीप्तिमान् । तथा श्रीवर्द्धमानस्वामी सर्वजगत्प्रधान इति गाथार्थः ॥८॥
से वीरिएणं पडिपुन्नवीरिए, सुदंसणे वा णगसबसिढे । सुरालए वासि मुदागरे से, विरायए णेगगुणोववेए ॥ ९ ॥
॥८८॥
Jain Education in
For Privale & Personal use only
| www.jainelibrary.org