________________
'ग्रन्थातीतः,' बाह्याऽभ्यन्तरग्रन्थरहितः, अभयः-सप्तभयवर्जितः, 'अणाऊ' अनायुर्दग्धकर्मबीजत्वात् संसारे पुनरनुत्पादादेवंविधो भगवान् शुद्धधर्मप्ररूपक इति गाथार्थः ॥ ५॥
से भूतिपन्ने अणिए अ चारी, ओहंतरे धीरे अणंतचक्खू ।
अणुत्तरं तप्पति सूरिए वा, वइरोयर्णिदेव तमं प(गासे)भासे ॥६॥ ___ व्याख्या-स भगवान् श्रुतिप्रज्ञः-अनन्तज्ञानवानित्यर्थः। अनियतंचारी-अप्रतिबद्धविहारी, परिग्रहत्यागात्-'ओहंतरे' संसारसागरतरणशीला, धोरो-धीबुद्धिस्तया राजते, परीषहोपसर्गाक्षोम्यो वा धीरः, तथा अनन्तचक्षु:-अनन्तं केवलज्ञानात्मकं चक्षुर्यस्य (स) तथा, यथा सूर्योऽनुत्तरं सर्वग्रहेभ्योऽधिकं तपति, तस्मान्न कश्चिदधिकस्तेजसा, तथा भगवानपिसर्वोत्तमः । तथा वैरोचनोऽग्निः, स एव दीप्तत्वादिन्द्रः, यथाऽसाऽबग्निस्तमोऽपनीय प्रकाशयति तथा भगवानपि तमो. ऽपनीय यथाऽवस्थितपदार्थप्रकाशनं करोतीति गाथार्थः ॥ ६॥
___अणुत्तरं धम्ममिणं जिणाणं, णेया मुणी कासव आसुपन्ने ।
इंदेव देवाण महाणुभावे, सहस्सणेता दिविणं विसिटे ॥ ७ ॥ व्याख्या-त(य)था 'जिनानां' ऋषमादितीर्थकृतां धर्मोऽयमनुत्तर:-सर्वोत्कृष्टः, तथा 'मुनिः' श्रीवर्धमानस्वामी काश्यपगोत्रीयो धर्मप्रणेता उत्पन्नदिव्यज्ञानः सर्वोत्तमो ज्ञेय इति । यथा स्वर्गे देवसहस्राणां नायको महानुभावो-महा
Jain Education in
For Privale & Personal use only
ww.jainelibrary.org