________________
जाणासि भिक्खु ! जहातहेणं, अहासुतं ब्रूहि जहा णिसंतं ॥ २ ॥
व्याख्या - कथम्भूतं तस्य भगवतो ज्ञानं ? कथम्भूतं च ' से ' तस्य दर्शनं १ शीलं च यमनियमरूपं कीदृग् ' ज्ञातसुतस्य ' भगवतो महावीरस्याऽसीदऽभूत् १ यदेतन्मया पृष्टं तद्भिक्षो-सुधर्मस्वामिन् ! याथातथ्येन त्वं जानासि यथा सम्यगवगच्छसि णमिति वाक्यालङ्कारे, तदेतत्सर्वं यथा श्रुतं त्वया, यथाऽवधारितं यथा दृष्टं तथा सर्व ' ब्रूहि' कथय । एवं पृष्टः सुधर्मस्वामी जम्बूस्वाम्यादिपृच्छकानां पुरः श्रीवर्द्धमानस्वामिनो गुणान् कथयतीति गाथार्थः ॥ २ ॥ तदेवाह - यन्नए से कुसले महेसी, अनंतनाणी य अणंतदेसी ।
जसंसिणो चक्खुप ठियस्स, जाणाहि धम्मं च धिइं च पेहा ॥ ३ ॥
व्याख्या– स भगवान् खेदज्ञ :- संसाराऽन्तर्वर्तिनां जन्तूनां कर्मविपाकजं दुःखं वेत्ति तेन खेदज्ञः कर्मविपाकजनितदुःखश्रमं सर्वेषां जानातीति । अथवा क्षेत्रज्ञः - यथाऽवस्थिताऽत्मस्वरूपपरिज्ञानादात्मज्ञः, अथवा क्षेत्र - माकाशं, तज्जानातीति क्षेत्रज्ञः - लोकालोकस्वरूपज्ञाता तथा ' कुशल: ' प्राणिनां कर्मोच्छेदनविधौ निपुणः, तथा महर्षिस्त (पश्चरणानुष्ठायी, तथाऽनन्तज्ञानी अनन्तदर्शी च । तथा त्रिभुवनव्यापकं यशोऽस्येति यशस्वी, तस्य लोकस्य चक्षुष्पथे स्थितस्य, भवस्थकेवल्यवस्थायामिति । सर्वपदार्थाऽऽविर्भावनेन चक्षुर्भूतस्य भगवतः प्ररूपितं धर्मं जानीहि । तथा धृतिं रतिं च संयमे तस्य भगवतो महोपसग्गैरप्यचलितसध्वस्य जानीहि प्रेक्षस्व एवंविधो भगवान् आसीत्तेनाऽयं धर्मः प्ररूपित इति गाथार्थः ॥ ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org