SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ अथ षष्ठं वीरस्तुत्यध्ययनम् । एयगडा सूत्रं दीपिकान्वितम् । ६ वीरस्तुत्यध्ययने वीरविभो गुणवर्ण ॥८६॥ नारम्भः। उक्तं पञ्चमाऽध्ययनं, साम्प्रतं षष्ठं प्रारम्यते । तत्र नरकविभक्त्यध्यनं श्रीमहावीरवर्द्धमानस्वामिना प्रतिपादितं, I तस्याऽनेन गुणकीर्तनद्वारेण 'चरितं प्ररूप्यते, प्रणेतुमहिमावर्णने शास्त्रस्याऽपि महिमैव दीप्यते, अत एव श्रीवीरस्तवनं | प्रारभ्यते । तत्रेयमादिगाथा पुच्छिसु णं समणा माहणा य, अगारिणो या परतित्थिया य । से के ? इमं नितियं धम्ममाहु, अणेलिसं साहुसमिक्खयाए ॥१॥ व्याख्या-नरकविमक्तिं श्रुत्वा संसारादुद्विग्नमनसः श्रीसुधर्मस्वामिनमप्राक्ष:-पृष्टवन्तः, यथा केनैवम्भूतो धर्मः संसारोचरणसमर्थः प्रतिपादितः१ अथ के पृष्टवन्तः १ णमिति वाक्याऽलङ्कारे, श्रमणा: ब्राह्मणास्तथाऽगारिणः क्षत्रियादयः, ये च शाक्यादयः परतीर्थिकास्ते पृष्टवन्तः। किम् ? तदिति दर्शयति । ‘से के इम'ति स कः? य इमं धर्म भवजलनिधितारणतरण्डप्रायं 'आह' उक्तवान् । ईदृशमनन्यसदृश-मतुल्यमित्यर्थः। 'साधुसमीक्षया' तच्चपरिच्छित्या यदि वा 'साधुसमीक्षया' समतयोक्तवान् इति गाथार्थः ॥ १॥ अथ तस्यैव ज्ञानादिगुणाऽवगतये प्रश्नमाह ___ कहं च णाणं कह दंसणं से, सीलं कहं नायसुतस्स आसी? । Jain Education in For Privale & Personal use only Twww.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy