________________
Jain Education Intern
एवं तिरिक्खे मणुयाम रेसुं, चतुरंतणंतं तयणूविवागं ।
स सबमेयं इति वेदइत्ता, कंखेज्ज कालं धुवमाथरेज ति बेमि ॥ २५ ॥
व्याख्या - एवमशुभकर्मकारिणां प्राणिनां तिर्यग् मनुष्याऽमरेष्वपि 'चतुरन्तं ' चतुर्गतिकमनन्तं ( तदनुरूपं ) दुःखविपाकं (स-बुद्धिमान् ) सर्वमेतत् पूर्वोक्तस्वरूपं 'विदित्वा' ज्ञात्वा 'ध्रुवं' संयममाचरन् मृत्युकालमाकाङ्गेत् । को भावः १ संसारान्ततानां प्राणिनां केवलं दुःखमेव, अतो 'ध्रुवो' मोक्षः संयमो वा तत्रोद्यमो विधेयो यावज्जीवमिति गाथार्थः ॥ २५ ॥ इतिः परिसमाप्तौ ब्रवीमीति पूर्ववत् ।
इति श्री परम सुविहितखरतरगच्छविभूषण श्रीमत्साधु रङ्गगणिवरगुम्फितायां श्रीमत्सूत्रकृताङ्गदी पिकाय पञ्चमे नरकविभयाख्येऽध्ययने द्वितीयोदेशकः समाप्तस्तत्समाप्तौ च नरकविभक्तयध्ययनं
पञ्चमं परिसमाप्तमिति ।
For Private & Personal Use Only
ww.jainelibrary.org