________________
यगडाङ्ग
सत्रं दीपिका
५नरकविमक्या ध्ययने द्वितीयो
न्वितम् ।
द्देशको
पसंहारः
जं जारिसं पुवमकासि कम्म, तमेव आगच्छति संपराए ।
एगंतदुक्खं भवमजिणित्ता, वेदंति दुक्खी तमणंतदुक्खं ॥ २३ ॥ व्याख्या-येन यादृशं यत् स्थितिकं येन येन भावेन पूर्वभवे कर्म बद्धं, तत् कर्म तादृग्भूतमेव ('सम्पराये' संसारे) जन्तोरुदयमायाति । परं नरके निम्केवलं दुःखरूपं भवमर्जयित्वा असातावेदनीयरूपमनन्त-मन्येन नोपशमनीयमप्रतीकारं दुःखं वेदयन्तीति गाथार्थः ॥ २३ ॥ अथोपदेशस्वरूपं दर्शयति
एयाणि सोच्चा णरगाणि धीरे, न हिंसए किंचण सबलोए ।
एगंतदिही अपरिग्गहे उ, बुज्झज्ज लोयस्स वसं न गच्छे ॥ २४ ॥ व्याख्या-'एतान् ' पूर्वोक्तान् दुःखविशेषान् श्रुत्वा धीरः' प्राज्ञ एतत् कुर्यात्तदर्शयति-सर्वस्मिन्नपि लोके न कमपि प्राणिनं हिंस्यात्-न व्यापादयेत् , एकान्तदृष्टि-निश्चलसम्यक्त्तः, तथाऽपरिग्रहः, एवंविधो न कमपि त्रसं वा स्थावरं वा प्राणिनं हिंस्यान व्यापादयेत् , तथा लोकमशुभकर्मकारिणं तद्विपाकफलं भुञ्जन्तं वा 'बुध्येत' जानीयात् यन्महापापकारिणो नरकेष्वनेकधा कदर्थ्यन्ते । तत्कदर्थना चावगम्य न तस्य वशं गच्छेत्-अशुभं कर्म न समाचरणीयं । यदि वा लोकं-कषायलोकं बुध्येत "दिति कसाया भवमणतं" इति ज्ञात्वा कषायवशं न गच्छेदिति गाथार्थः॥ २४ ॥
।। ८५॥
Jain Educa
t ional
For Privale & Personal use only
www.jainelibrary.org
AM