SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ | सद्विलीनं-द्रवीभृतं यल्लोई-अयस्तादृशजला । द्रवीभूतोष्णलोहसदृशपानीया सदाजला वहति, तस्यां च अभिदुर्गायां नद्यां प्रपद्यमानाः नारका [एकाकिनो] अत्राणाः अनुक्रमण-तस्यां गमनं प्लवनं कुर्वन्तीति गाथार्थः ।। २१॥ पुनर्नारकाणां दुःखविशेष दर्शयितुमाह एयाइं फासाइं फुसंति बालं, निरंतरं तत्थ चिरद्वितीयं । ण हम्ममाणस्स उ होइ ताणं, एगो सयं पञ्चणुहोइ दुक्खं ॥ २२॥ व्याख्या-एतानि पूर्वोक्तानि 'स्फर्शानि' दुःखानि 'बालं' नारकं बहु कालं यावत् 'स्पृशन्ति' दुःखयन्ति । 'निरन्तरं' विश्रामरहितं x “ अच्छिनिमेलणमित्तं पि, नत्थि सुहं दुक्खमेव अणुबद्धं । नरए नेरईयाणं, अहोनिसं पच्चमाणाणं ॥१॥" इति वचनात्तत्रस्थो नारकः 'एको' असहाय एव, यदर्थ पातकमर्जितं ते तु दरे स्थिताः, स त्वेकाक्येव नरकाऽनले पच्यते । स्वकर्मफलभुजो हि जन्तवः, न कोऽपि दुःखं संविभज्य गृह्णाति । यतो " मया परिजनस्याऽर्थे, कृतं कर्म सुदारुणम् । एकाकी तेन दोहं, गतास्ते फल भोगिनः॥२॥" इति गाथार्थः ॥ २२ ॥ किश्चाऽन्यत् x “ तत्र चिरस्थितिक तं । हन्यमानस्य नारकस्य न किञ्चित्राणं स्यात्, यथा शीतेन्द्रेण लक्ष्मणस्य नरकदुःखमनुभवतस्त्राणोद्यतेनापि न त्राणं कृतमिति ।" हर्ष । १ अक्षिनिमीलनमात्रमपि नास्ति सुख दुःखमेवानुबद्धम् । निरये नैरयिकाणां अहर्निशं पच्यमानानाम् ॥ १ ॥ Jain Education na For Privale & Personal use only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy