________________
Jain Education Intern
विक्षिपन्तीति गाथार्थः ।। १६ ।। किञ्च -
तालिए नाम महाभितावे, एगायते पवयमंतलिक्खे |
हम्मति तत्था बहुकूरकम्मा, परं सहस्साण मुहुत्तगाणं ॥ १७ ॥
व्याख्या–नामशब्दः सम्भावनायां । नरकेषु एको महान् [दीर्घः] एकशिलाघटितो नरकपालैरेव वैक्रियो निष्पादितः, अन्तरिक्षे पर्वतोऽस्ति । दीर्घोऽतिविस्तृतः अत्युच्चः, तत्र च नरके तमोबाहुल्यम् । ततो नारकाः परमाऽधार्मिकः प्रेर्यन्ते । आरुहन्तु विषममिमं गिरिं ततस्ते तमोरूपत्वात् हस्तस्पर्शिकया समारुहन्तः अशक्नुवन्तश्च हन्यन्ते । बहुक्रूरकर्माणो वराकाः, सहस्रसंख्यानां मुहूर्त्तानां परं प्रकृष्टं कालं एतावता प्रभूतं कालं यावत् हन्यन्त इति गाथार्थः ॥ १७ ॥ संबाहिया दुकडिणो थणंति, अहो य राओ परितप्यमाणा ।
एकूडे नरए महंते, कूडेण तत्था विसमे हताओ ॥ १८ ॥
व्याख्या—ते नारकाः बहुपापोपचया: ' दुष्कृतिनो ' महापापा: अहर्निशं परितप्यमानाः - अतिदुःखेन पीड्यमानाः, असुरैश्च हन्यमानाः करुणं दीनं ' स्तनन्ति' आक्रन्दन्ति । कथम्भूते नरके ? एकान्तकुटे - दुःखोत्पत्तिस्थाने, महति विस्तीर्णे पतिताः प्राणिनः 'कूटेन' गलयन्त्रपाशादिना पापाणस पूहेन वा हताः सन्तो, नवरमाक्रन्दमेव कुर्वन्ति इति गाथार्थः || १८ || भजंति णं पुवमरी सरो, समोग्गरे ते मुसले गहेउं ।
For Private & Personal Use Only
finelibrary.org