SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ सूयगडाग ५नरकविमत्य सूत्रं दीपिकान्वितम् । ध्ययने ॥७९॥ अथ तस्यां यत् क्रियते तदर्शयितुमाह पक्खिप्प तासु पययंति बाले, अदृस्सरे ते कलुणं रसंते। तण्हाइया ते तउतंबतत्तं, पच्चिजमाणाऽतरं रसंति ॥ २५ ॥ व्याख्या-ते परमाऽधार्मिकास्तानारकान् आर्तस्वरान् करुणं रसन्ता, दीनं प्रलपन्तस्तासु कुम्भीषु प्रदीप्ताग्नितप्तासु किल्विषपूर्णासु बीभत्सासु प्रक्षिपन्ति, प्रक्षिप्य च पचन्ति । ते पच्यमानाः विरसमाक्रन्दन्तः तृष्णया व्याप्ताः सलिलं प्रार्थयन्ति । ततस्ते नरकपाला: मद्य तवाऽतीव प्रियमासीदिति स्मारयित्वा तप्तं वपुः पाययन्ति । ते च तप्तंत्रपुः पाय्यमाना आर्चतरं 'रसन्ति' रारटन्तीति गाथार्थः ॥ २५॥ अथोद्देशकार्थोपसंहारार्थमाह अप्पेण अप्पं इह वंचयित्ता, भवाहमे पुठ्वसते सहस्से । चिटुंति तत्था बहुकूरम्मा, जहा कडे कम्म तहा सि भारे ॥ २६ ॥ व्याख्या-'इह' मनुष्यभवे आत्मना परवश्चनप्रवृत्तेन परमार्थतः आत्मानं वश्चयित्वा अल्पेन परोपघातसुखेन आत्मैव वंच्यते । तत आत्मानं परवञ्चनेन वश्वयित्वा अधमभवान्-वधकलुब्धकादीनां भवाऽधमान् शतसहस्रशः समनु. भूय विषयोन्मुखतया सुकृतपराङ्मुखाः नरकेषु पतन्ति । तत्र घोराऽतिदारुणं नरकवासं प्राप्य प्रभूतकालं यावत्तिष्ठन्ति । पूर्व| जन्मनि यादग्भूतानि कर्माणि कृतानि 'तथा' तेनैव प्रकारेण[से तस्य[भारे] वेदनाः प्रादुर्भवन्ति स्वतः परत उभयतो वा। प्रथमोद्देशके. विविधायातना नारकाणाम् । ॥७९॥ Jain Education For Privale & Personal use only twjainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy